पृष्ठम्:आर्यभटीयम्.djvu/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ गणितपादे [ गणित० [ वृत्तादिपरिकल्पना ] ग्रनादिष्टदिङ्मात्रप्रदर्शनायाऽऽह'-- वृत्त भ्रमेण साध्यं त्रिभुजं च चतुर्भुर्जं च कर्णाभ्याम् । साध्या जलेन समभूर श्रधऊर्ध्वं लम्बकेनैव ॥ १३ ॥ भ्रमः कर्कटकः । तेन वृत्त परिलेखनीयम्। त्रिभुज चतुर्भुजं च क्षेत्र कर्णद्वयं भ्रमेण प्रसार्य तदग्रप्रसृतभुजसूत्रानुसारेण लेखनीयम्। भूसाम्यं जलेन साध्यम् । श्रग्रबद्धगुरुद्रव्यं सूत्रम् श्रवलम्बकः । तेनोपर्यधोभावो ज्ञातव्यः ।। इति त्रयोदश सूत्रम्। १३ । [ इष्टवृत्तविष्कम्भः ] स्ववृत्तविष्कम्भाधनियनमार्ययाऽऽह'- शङ्कोः प्रमाणवर्ग छायावर्गेण संयुतं कृत्वा । यत्तस्य वर्गमूलं विष्कम्भार्ध स्ववृत्तस्य ॥ १४ ॥ शङ्कोरिष्टप्रमाणस्य वर्गं तस्यैव छायावर्गे क्षिपेत् । तस्य संयुक्तस्य यद्द्द्वर्गमूलं ततः स्ववृत्तस्य व्यासार्ध भवति । छायाग्रं मध्ये कृत्वा कर्णप्रमाणेन शङ्कुमस्तकप्रापिणा सूत्रेण यद्वृत्तमालिख्यते तत् स्ववृत्तं नाम । तद्वच्यासार्धम् अत्र स्ववृत्तविष्कम्भार्धमित्युक्तम् । उद्देशक:- द्वादशाङ्गुलशङ्कोः स्याच्छाया पञ्चकसम्मिता ॥ बूहि स्ववृत्तविष्कम्भदल यद्यस्ति ते श्रमः ॥ व्याख्या- 1. E. दर्शनायार्ययाऽऽह 2. E. om. Zf 3. D. नयनार्थमाह