१६४ आयुर्वेदीयग्रन्थमाय। [ अध्याय पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः। रेखबिन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥ त्रिकोणाथ सुदीर्घश्च विज्ञेयास्ते नपुंसकाः । सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २०॥ स्त्रियः कुर्वन्ति कायस्य कान्ति स्त्रीणा सुखप्रदाः। नपुंसकास्त्ववीर्याः स्युरकामाः सववर्जिताः ॥ २१ ॥ व्रियः स्त्रीभ्यः प्रदातव्या क्लीबान् क्लैवे प्रयोजयेत् । सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥ । अथ रसपद्धत्या हीरकोत्पत्तिरन्यथोक्ता । यथा जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्या पुन दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः। दत्चाऽथ स्खशरीरमव्यथमय धीरः सुराणां पुर स्तथौ तैः स तु सप्ततन्तुभुजिभिः खगेश्वरायार्पितः २३ चिच्छेदथ शिरोऽस्य वज़शिरसो वीण वी पुन भृतो रत्नसमुच्चयो बल इति साहुः पुराणर्षयः। शुभं वा वदनादनुष्य पवयो ये जज्ञिरे ते द्विजा बाहुम्याप्सुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः२४ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥ प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरय देहयाचनावसर इति भावः । सप्ततन्तुशृजिभिर्यज्ञधृग्भिः । शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः पूर्व मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः । ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता स्ते वजाण्यभवज्जुर्ननु परित्यूचिरे केचन ॥ २६ ॥ १ विकर्तन सूर्य , तत्करत्राता किरणसमूह , है ।