पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(सू) (भा) आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने द्वितीयः पटल [कदाचिदमावास्यायामप्याधानम्] यदा तु प्रतिपदि पूर्वाह्ने पर्वकालः तदा अमावास्यायाम् ॥ अथ व्रतं चरति न मांसमश्नाति न त्रियमुपैति नास्याग्निं गृहाद्धरन्ति नान्यत आहरन्ति ॥ ६ ॥ ॥१७॥९५१॥ [व्रतस्य सर्वकल्पसाधारण्यम्] असवत्सरपक्षे च व्रतानि ॥ 501 [ अमावास्याधाने विशेषाः] (बू) यदा तु मावास्यायाम्-पर्वसन्धेराधानप्रयोगान्तर्भावाय । पूर्वाहे सन्धौ पूर्वेधुरुपक्रम्यामावास्याधानम् । अपराह्ने रात्रौ वा अमावास्यासधिपक्ष अमावास्याधानम् । तस्मिन्नहन्युपक्रम्योत्तरयुरा- घानम् ॥ [पार्णमान्याधाने विशेषः] पौर्णमास्याघाने तु पूर्वस्मिन् पर्वणि सेष्टिसान्वारम्भणीयापवर्ग- विधानात् पौर्णमास्याश्च तिथिद्वयसबन्धस्यापेक्षितत्वात् नाधा नमध्ये पर्वसन्धिसभव. । अतः पूर्वाह्ने सधौ न पौर्णमास्याधानमित्येके ॥ [यदा त्वित्यादिभाष्याक्षरार्थः] अक्षरयोजना तु, - यदा तु प्रतिपदि पूर्वाह्ने पर्वसधि तदा उत्कृष्या मावास्यायां नक्षत्रे वाऽऽधान कर्तव्यम् । पौर्णमासीसङ्कल्पोत्तर- काल पर्वसन्धिसनिपातस्यापेक्षितत्वात् । रात्रावमावास्यापर्वसन्धिपक्षेऽप्य- मावास्यावान कर्तव्यमेव पशुसोमादिवत् । सन्धिमदहोरात्रस्यापेक्षि- तत्वात् ॥ [ व्रतस्य सर्वकल्पसाधारण्योपपत्तिः] असंवत्सरपक्षे च व्रतानि -- अथ व्रत चरन्तीत्युपक्रम्य 1 नान्यत आहरन्तीति सूत्रभाग रुद्रदत्त पाठे न दृश्यते । 2 के पर्व सन्धौ - ख. ग 3 पौर्णमासीपर्व ख ग.