पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

436 श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ११, सू २. (मा) समिदाधानार्था ऋचस्सामिषेन्यः । तासां पुरस्ताद्धृदयदेशं स्पृशन् ऊर्ध्व प्रादेशं– प्रदेशिन्या युक्तोऽक्रुष्ठः प्रादेश तं धारय- [उक्तजपयोरङ्गिनिर्देश तत्फलश्च] माण: । एवमादि सामिघेन्यर्थम् । अतो गृहमेघीये निवर्तते ॥ (सू) (भा) अन्तराऽऽहवनीयमुत्करं च प्रतीचीनं गच्छन् जपति;-कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापतेश्शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावते करिष्यामि । नमो अनय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावर्ती पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः | प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्य- मनुरक्ष्यामि । वागार्त्विज्यं करोतु मन आर्विज्यं करोतु | वाचं प्रपद्ये भूर्भुवस्सुवरिति । सत्यं प्रपद्य इति वा ॥ २ ॥ [सत्यमित्याद्यवधिस्तद्धेतुश्च] सत्यं प्रपद्य इति व्याहृत्यन्तः ॥ [सामिधेन्यङ्गत्वे मानम् ] (इ) समिदाघानार्था - घेन्यर्थम् – पुरस्तात्सामिषेनीनामिति वच- - नात् ॥ [वक्ष्यमाणव्याहृतिजपस्यान्यत्वम् ] - सत्यं - - हृत्यन्तः - दशहोतारं व्याख्याय व्याहृतीश्च जपित्वे त्यत्र सत्यं प्रपद्य इत्यनुवाकपठितानां व्याहृतीनां न विनियोगः ।।

  • प्रादेशिन ? - ञ.

3 माण एव एवमादि-घ. 1 संस्पृशन्-ञ. 1 बाशब्दो न दृश्यते क्वचित्.