पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं १३, सू ४.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तुरीय पटल (सू) (भा) (सू) (सू) राकाया अहं देवयज्यया प्रजावान् भृयास सिनीवाल्या अहं देवयज्यया पशुमान् भूयासं कुद्धा अहं देवयज्यया पुष्टिमान् पशुमान् भूयासमिति 1 काम्याः ॥ २ ॥ २ ॥ ७८१ ॥ [काम्याकाम्यसाधारणमनुमन्त्रणम् ] काम्या इति अकाम्या अप्येता एवोपलक्ष्यन्ते ॥ राकाया अहं देवयज्यया प्रजावती भूयास सिनीवाल्या अहं देवयज्यथा पशुमती भूयासं कुह्ला अहं देवयज्यया पुष्टिमती पशुमती भूया- समिति पत्नयनुमन्त्रयते ॥ ३ ॥ ३ ॥ ७८२ ॥ 3 इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोपयज्ञम- स्थित वैश्वदेवीत्याज्येडाम् ।। ४ ।। ४ ।। ७८३ ।। - 415 (वृ) पक्षे राकादिसपत्नीयहोमव्यवहितत्वेन गृहपतीज्यायामपि गृहपतेः पश्चात्तत्रेणानुमत्रण देवाना पत्नी रमिगृहपतिरिति मन्त्रस्य तन्त्रपाठात् प्रकृतौ मन्त्रविकारानुपपत्ते ॥ [भाग्यदर्शितसाधारण्यनिर्वाहः ] काम्याअ – लक्ष्यन्ते -- काम्या इत्युक्तेऽपि नित्यपक्षे एता एवाशिष उपलक्ष्यन्ते । अन्येषां हुतानुमन्त्रणानामनुकत्वान्नित्यानामपि फला शासन रूपहुतानुमन्त्रणोपपत्ते ॥ । तन I काम्यग्रहणेन काम्यदेवता उपलक्षयति न तु नित्या व्यावर्तयति आविशिष्टमनुमन्त्रण नित्यत्वेऽपि (रु). 2 अपि ता एवो ख ग घ उघृते- नेत्युद कामिधानान्मासडायामप्यनूह ( रु ) 3