पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १, सू ७.] आपस्तम्बश्रौतसूत्रे तुरयिप्र ने प्रथम पटल 359 [ एतदुपस्पर्शनवत्तया संग्राह्यकर्माणि उपदेशमतं मानं च] (भा) एवमिष्टिविकारेष्वपि भवति । सर्वयज्ञा दर्विहोमैस्सह । उपदेशो यज्ञक्रतुसयुक्तेष्वेव। बाह्मणे तथा वचनात् ॥ [अग्निहोत्रेनोपस्पर्शनम्] न त्वेवामिहोत्रे, तत्र होमे पुनर्विधानात् ॥ [यक्ष्यमाणत्वकृतोपस्पर्शनकालः] यज्ञऋतुषु यक्ष्यमाणो वेष्टा वेति पुरस्तात्प्रणयनस्येष्टि विकारे- ष्वपामुपस्पर्शनम् ॥ [पश्वादिषूपस्पर्शने कालः] (वृ) एवमिष्टि - भवति – पश्चा दिषु यदा सङ्कल्पादूर्ध्वमुपस्पर्शन तदा यक्ष्यमाणशब्दस्य प्रथमपदार्था रिप्सुपरत्वात् प्रणयनस्य प्रथम- पदार्थत्वात्पशाबाहवनीयप्रणयनात्पूर्वमुपस्पर्शनम् || [दर्विहोमसाधारण्येनोपस्पर्शनप्रापकम् ] सर्वयज्ञादर्विहोमैस्सह - यक्ष्यमाणोऽप उपस्पृशतीति विधाय तदिद सर्वयज्ञेष्विति पुनर्वचनात् ॥ उपदेशो - वचनात् – अथो आहुः सर्वेषु यज्ञक्रतुष्विति । [अग्निहोत्रे तद्द्भावोपपादनम्] - न त्वेवाग्निहोत्रे – आरम्भे दर्बिहोमेषु प्राप्तिपक्षेऽपि । तत्र होमे पुनर्विधानात् — होष्यन्नप उपस्पृश्य पालाश समिध हुत्वाऽप उपस्पृश्य 'अन्तर्वेदीत्युत्कर्षापकर्षविधानात् नोपक्रमोप- संहारयो । अत एवामिहोत्रेऽपि तयोर्याजमानत्वम् || 6 [पुरस्तात्प्रणयनादुपस्पर्शने हेतोरुपपादनम्] यज्ञक्रतुषु - स्पर्शनम् – अस्यार्थ –सङ्कल्पोत्तरकालमपामुप- स्पर्शन 'पक्षे साङ्गं प्रधानं प्रति यक्ष्यमाणत्वापाये केवलं प्रधानं प्रति यक्ष्यमाणत्वस्या श्रायतव्यत्वादवदानात्प्रागुपस्पर्शने प्राप्ते प्रणयनात्पूर्व 1 अश्वादिषु ? – ख ग 4 संकल्पात्पर कालम् - घ. 5 शनकाले साङ्गम् ट 2 र्थ प्रारिप्सु - ख. ग. 3न्तर्वेद्युत्कर्षा - ख. ग. 6 साशं प्रति क.