पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

302 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ १५, सू ४ [तन्त्रप्रथमपरिग्रहानियमपक्षः] समानतन्त्रे नानातन्त्रे च याथाकामीत्युपदेशः ॥ सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ॥ ॥ ४॥ ४ ॥६१० ॥ [अत्र पक्षे दक्षिणाविषयमतिभेदः] (भा) समान तत्रेऽपि केचिद्दक्षिणामिच्छन्ति, अविशेषेण चोदितत्वा- त्प्रकृतिदक्षिणाया, विरोधाभावाच्च ॥ दर्शपूर्णमासविकारेषु ब्रह्मणे गामिति कस्मान्न भवति दर्श- पूर्णमासार्थत्वात्सर्वमन्त्राणाम् ॥ (सू) [ नियमस्य विशेषविषयत्वलाभः ] (वृ) समान -त्युपदेश इति-समानतन्त्रमे के इत्युक्ता तस्य याथा - कामी प्रक्रमे इत्युपदेशात् समानतन्त्रत्वनानातन्त्रत्वयोर्यथोपक्रम नियम इति ॥ [ दक्षिणाविषयमतिभेदविवरणम् ] दर्शपूर्ण-वति — गामिति प्रदर्शन द्रव्यान्तराभिधानानामप्यूहः कस्मान्न भवति परिहरति, - + [ शङ्कापरिहारः] दर्शपूर्ण मन्त्राणाम् – तत्रानर्थकत्वात् तद्विकारेषु पौष्णा- धनुमन्त्रणवत् वैमृधे सर्वप्रतिग्रहमन्त्राणां प्राप्तिः । 1 समानतन्त्रत्वेऽपि केचिदक्षिणाया समुच्चयमिच्छन्ति ( रु ) तन्त्रेण -ट 2 ग - पुस्तके न दृश्यते. थोपक्रमे इति प्रक्रमे प्रारम्भे असमानतन्त्रपक्षो यदि ग्राह्य कदाचित्समानतन्त्र न कुर्याद्यदि समानतन्त्रो भवति वैमृधस्तु कदाचिन त्यज्यते (मु रा )