पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxxvi सच कपर्दी गृह्यप्रश्नम्, यज्ञं व्याख्यास्याम इति प्रतिज्ञाय "श्रुतिलक्षणहविर्यज्ञसंस्थास्सोमसंस्थास्सविकृतयो व्याख्याताः । अथ अनन्तरं अधिक्रियन्ते कर्माणि गृह्यन्ते यान्युत्सन्नपाठब्राह्म- णेभ्यः तानि व्याख्यास्यामः इत्यवातारयत् । , " कपर्दिभाष्यमिति इतः प्रचारिते च ' व्याख्यानं नाम इत्या रभ्य “तदिदं व्याख्यानं सर्वकर्मशेषत्वादादौ प्राप्तं सदन्ते कृतम्' इत्यादिना परिभाषाप्रश्नस्य कल्पनिवन्धान्तिमभागतां प्रकटयति । गृह्यभाष्ये तथाऽवतारयन् परिभाषाप्राथम्यसमर्थकः कपर्दि- स्वामी परिभाषामन्यथावतारयितुं नार्हेदिति कपर्दिस्वामिनोऽन्य एव तत्र व्याख्यातेति निश्चिनुमः । तत्र च रुद्रदत्तो हरदत्तश्च कल्पनिबन्धे व्याख्यातारौ प्रथेत । तयोश्च हरदत्तोऽपि धूर्तस्वामिवचश्छायानुसारी व्याख्यातेति रुद्र- दत्त एव चतुर्विंशप्रश्नतया परिभाषाप्रश्नं मन्यत इति स एवैवं व्याख्याकृत्स्यादिति संभावयितुं शक्यत इति । धूर्तस्वामिभाष्यवृत्तिपरिचयः, धूर्तस्वामिभाष्यस्य दर्शपूर्णमासप्रभृतिसोमान्तभागे रामा- ण्डारवृत्तिद्देश्यते । सोमग्रन्थान्ते 'इति रामाग्निचिद्रतिस्समाप्ता' इति लेखदर्शनाञ्च तदन्तैव वृत्तिः प्रणीतेत्यपि निर्णेतव्यं भवति । यद्यपि पुण्यपत्तनतः दर्शपूर्णमासप्रकाशनाम्ना प्रचरति किञ्च- न पुस्तकम् ; यत्र च भाष्यवृत्तिः सूत्रदीपिका च प्रश्नचतुष्टयी- भागस्य प्रकाश्येते । तथाऽपि तत्प्रकाशकस्य भाष्यप्रन्थदौलभ्यं भाष्यवृत्तिरूपनिबन्धद्वयविवेचनदौष्कर्य वा तथा प्रकाशने नियन्धन- माकलयामः । यद्यपि भाष्यानुपूर्वी समग्रामेवानूद्य वृत्तिनिबन्धलेखनं कोशेषु दृश्यते; ततश्च स्वपदविवरणरूपतयैक एवायं निबन्ध इति शङ्कितुमस्त्यवसरः ।