पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्खं. १८, सू ५ ] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 119 (सू) अदित्यास्त्वोपस्थे सादयामीत्यपरेण गाई- पत्यं यथा ' ' दैवतमुपसादयति ॥५॥३६॥ १८० ॥ [देवतायां मतिभेदः निधाननियमञ्च] (भा) 5 अमे हव्य रक्षस्वाभीषोमौ हव्य रक्षेथामिति भारद्वाजपाठात् । न गार्हपत्याभिधानम् । निरुप्त देवतानामेव | यथा भारद्वाजस्य तथा- स्माकम् । 4 अमि. केवलो बोधायनस्येति । केचिदग्ने हव्यं रक्षस्वामी - षोमाभ्यामिति कुर्वन्ति । अपरेण गार्हपत्यं निधानं यदि तत्र श्रपणम् ।। १८० ॥ 7 अग्ने हव्यं – रक्षेथामिति – नायमूहः ॥ भारद्वाज – धानम्- - अग्निशब्देन || [भारद्वाजमततौल्यहेतुः] निरुप्तदे –स्माकम् – समानब्राह्मणानुसन्धानात् । यथादेवत- मिति वचनादविरोधाञ्च ॥ [बोधायनाशयः] अग्निः केवलो बोधायनस्येति गार्हपत्य आहवनीयो वा निर्दिश्यते । यस्य समीपे उपसादन स निरुप्तदेवता । विष्णो हव्यं रक्षस्वेतिवत् ॥ [केचिदित्युक्तपक्षेश्रुत्यर्थः] केचिदने – कुर्वन्ति–अमे हव्यमित्यभिशब्द 8 समीपाभि- 1 यथादेवतमिति वचनात् उत्तरत्रापि देवतानुक्रमणीया । तत्र तु मन्त्रस्थमाख्यातम योग्यान्वयत्वाद्विपरिणतमन्वीयते, यथा अमे हव्यं रक्षस्वाभीषोमौ रक्षेथामिति । वेमृधे समानतन्त्रे योग्यान्वयमपि तत् व्यवायान्नानुषज्यत इति न्यायेनालब्धान्वयमिति रक्षस्वेति पुन प्रयोग (रु) 2 दैवत - क ' 3 देवताया एव - ग देवताया एवाभिधानम् अ 4 तथाभिरेव केवलो 5 यनस्य-अ 6 रक्षस्वामयेऽभषिोमा अ 7 न्ति तन्न-क 8 शब्दसमीपा (मु रा ).