पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27 3 खं २, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) नावर्तते प्रतिगु; 1 यद्येकयत्नेन प्रतिष्ठन्ते गाव ॥

(सू) प्रस्थितानामेकां शाखयोपस्पृशति दर्भैः दर्भपुञ्जीलैर्वा ॥१.२.५॥१६॥

शाखयोपस्पर्शन तूष्णीम् ॥ [गोप्रस्थापनमन्त्रपाठपक्षी

(सू) 'आप्यायध्वम घ्निया इन्द्राय देवभाग 'मेके समामनन्ति । महेन्द्रायेत्येके ॥१.२.६॥१७॥

समामनन्ति-परिपठन्त्यन्ये शाखिन ॥

(सू) इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः ॥१.२.७॥१८॥

निगमा –मन्त्रा । उपलक्षणं क्षेपः ॥

(सू) शुद्धा अपस्सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परिवो वृणक्त्विति प्रस्थिता अनुमन्त्रयते ॥१.२.८॥१९॥

नावर्तते-गावः, यत्नान्तरेण प्रस्थापने मन्त्रावृत्तिः ॥ इन्द्रायदेवभा-त्येके, इति शाखान्तरोपदेश । तस्मिन्नपि पक्षे व्यवस्थयोपलक्षणम् ॥ 2 1वत्सविनाकृताना युगपत् शक्यनिष्कासनत्वानमन्त्रावृत्ति (रु) प्रस्था- 3 पनमन्त्रस्य शाखान्तरीयौ पाठविकारो दर्शयति । (रु). नया-क. 4मित्येके-क 5 निगम्यन्ते येषु हविष प्रतियोगित्वेन रूपेण देवतास्त मन्त्रा निगमा (रु). 8 अनुपूर्वोऽभिपूर्वश्च मन्त्रयति तदभिसधाय मन्त्रोच्चारणे प्रयुज्यते अभिपूर्वस्तु तस्मिन्नेवाभिमुख्याधिक (रु)