पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू. १ ] श्रीराम निचिद्वृत्ति सहित वर्तस्वामिभाष्यभूषिते

-3

(भा) सप्त हविर्यज्ञसस्थाः ; - अग्निहोत्र दर्शपूर्णमासौ आग्रयण चातुर्मा- स्यानि निरूढपशुबन्धः सौत्रामाण 'पिण्डपितृयज्ञादयो दर्वीहोमा इति ॥ सप्त सोमसस्थाः - अग्निष्टोमोऽत्यग्निष्टोम उक्थ्य षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति ॥ --

[पशुहविर्भेदाः] तत्र यज्ञसाधनानि हवींषि ; - पशुप्रभव दशविध पयो दध्या- ज्यमामिक्षा वाजिन वपा त्व ड्यास लोहित पशुरस इति ॥ [उपोद्धातनिर्वाहः ] (वृ) अथशब्दस्यानन्तर्यार्थत्वात् पूर्ववृत्तापेक्षाया 'यज्ञ व्याख्यास्याम' इति परिभाषा पूर्ववृत्तोपोद्धातरूपोच्यते । 'तदानन्तर्यमथ 'शब्दस्यार्थः ॥ [दवहोमताहेतुः] दर्वीहोमा इति – यज्ञशब्दवाच्यत्वेऽपि पिण्डपितृयज्ञस्य वषट्- कारप्रदानत्वाभावाद्दवहोमता । आदिशब्देन 'चतुर्होतृहोमादिग्रहणम् || [अत्यग्निष्टोमपदार्थ.] - ' सप्तसोम – र्याम इति अभिष्टोमे यस्मिन् राजन्यस्य षोडशी गृह्यते सोऽत्यग्निष्टोम | ब्राह्मणस्याप्यत्यग्निष्टोमो लभ्यते चत्वारिंशत्स- स्कारनियमात् || [तत्तद्धविस्स्थानानि] तत्र वींषि 8 'ससाधनकयज्ञव्याख्याप्रतिज्ञानाद्यज्ञसाधन- हवींष्युच्यन्ते । पशुप्र - पशुरस इति - अश्वमेघे त्वच उत्कृत्य वपाना-


1 पिण्ड पितृ यज्ञ इति- ख. ज. 2 पशुप्रभवानि दशविधानि -ग. 3 त्वचोमास - घ 4 'वृत्तस्य कस्यचिदनन्तरस्यानुपलम्भात् नेहानन्तर्यार्थोऽथशब्द इति रुद्रदत्त 6 शब्दार्थ -क. 8 6 चातुर्होत्र क. 7वृत्तिरियं प्रायोव्याख्येया- व्याख्येयनिखिलानुपूर्व्यनुवादपरा । तत्रानुपयोगिता निखिलानुवादस्यालोच्य आद्यन्त- भागमात्र संगृह्य प्रतीकतया प्रदर्शयाम 8 तत्साधनक- क्र. (मु. रो) तु वसा इति पशुरसस्थाने पाठ 8 मुद्रिते