पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः पटलः ॥ थेन कृतावसथः स्यादतिचिन तं प्रत्युत्तिष्ठेत्प्रत्यवरो. हेदा पुरस्तादभिवादितः ॥ १॥ येन गृहस्थेनाऽतिशिः कृतावसथः स्यात् (१)कृतावासः दत्ताचा. स. स्यात । द्वितीययान्तरिक्ष्यानित्यादिवचनात् द्वितीयादिध्वहस्सु त प्रति न प्रत्युत्तिष्ठेन् । नाऽण्यासनात् प्रत्यवराहेत् । स वेलस्मिनहनि पूर्वमेवाभिवादित । अनभिवादिते तु अभिवादनार्थ प्रत्युत्तिष्ठेत् , प्रत्यवरोहेच्च ॥१॥ शेषभोज्यतिथीनां स्थात् ॥२॥ 'अतिथीनेवाग्रे भोजये (२.४.११.)दित्यव सिद्धे वचनमिद प्रमादान दत्तमतिथथे, तन भुञ्जीतत्येवमधम् ॥ २ ॥ न रसान् गृहे भुञ्जीतानवशेषमतिथिभ्यः ॥ ३ ॥ आगामियोऽतिथिभ्यो प्रथा न किञ्चिव गुहेऽवशिष्यते, तथा गव्यादयो रसा न भोज्याः । सद्यसम्पादयितुमशक्यत्वाद्रसानाम्॥३॥ नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ ४ ॥ आत्मानमुहिश्याऽभिरूपमन्न स्वायूपादि न पाचयेत् ॥ ४ ॥ गोमधुपका) चेदाध्यायः ॥ ५ ॥ साङ्गस्य वेदस्याऽध्येता वेदाध्याय । सोऽतिथिमधुपर्कमईति, गांच दक्षिणाम् ॥ ५॥ आचार्य ऋत्विक्स्नातको राजा वा धर्मयुक्तः ॥६॥ अवेदाध्याया अप्याचार्यादयो गोमधुपर्काहींः । अत एव शायते- एकदेशाध्यायिनावप्यूविगाचार्यो भवन इति । धर्मयुक्त इति राज्ञो विशे- पणम् । वाशब्दः समुच्चये ॥ ६॥ आचार्यायविंजे इन्शुराय राज्ञ इति परिसंवत्सरा. दुपतिष्टभ्यो गोर्मधुपर्कश्च ॥ ७ ॥ एतत् (२)गृह्ये व्याख्यातम् । गौरत्र दाक्षिणाऽधिका विधीयते ॥७॥ कृनवास दत्तवासः इति क० पु० २. आप. गृ १३ १९