पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
अलङ्कारसर्वस्वम्


अत्र दाहादीनामग्भःप्रसृत्यायैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा विपर्ययो यथ।

'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
नरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥

तुल्यकालत्वं यथा--

‘अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ।

एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अत्र चा- तिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि ‘क- मलमनम्भसि' इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविस- मर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिः रभेदाध्यवसायो योजनीयः । अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि ‘अण्णं लडहत्तणअं’ इत्यादौ सातिशयं लटभात्वं निमित्तभूतमभेदेना- ध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालं


समौ सरन्ति-‘ससिमुहीणम् ।' अत्र परिजनादीनामपसरणे क्रमिकत्वेऽपि सम- कालत्वमध्यवसितम् । एवमेषां सर्वेषामेव भेदानां लोकासंभवद्विषयत्वं दर्शयितुमाह- एष्वित्यादि । एष्विति विषयसप्तमी । एष चावयवनिर्देशः । लोकातिक्रान्तेति । कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः । अत्रेति भेदपञ्चके । चशब्दः प्रमे- यान्तरसमुञ्चयार्थः । फलमिति । तस्यैव प्रतिपिपादयिषितत्वात् । तत्रेति । वास्तवस्य सौन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचनेन । ननु चात्र वदनादीनां कमलायध्यवसायः प्रतीयते इति कथमेतदुक्तमित्याशङ्कयाह-न त्वित्यादि । कुतश्च तेष्वव्याप्तिरित्याश- ङ्कयाह-तत्र हीत्यादि । कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसा- ययोजनं क्रियते तत्तस्य धर्मिगतत्वेनैवेष्टैरिहं धर्माणां न स्यादव्याप्तिः । अतश्च पूर्वत्र धर्मा णामेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः । उपलक्ष्यं चैतत् । यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् । तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्याप्तिः स्यात् । प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङ्गः


१. ‘पतता' क. २. ‘एष्वेव ' ख. ३. ‘अतश्चानु' ख. ४. ‘अत्र च' ख. ६