अत्र मुखादीनां कमलाद्यैर्भेदेऽप्यभेदः । अभेदे भेदो यथा-
‘अण्णं लडहत्तणअं अण्णा विहि कावि वत्तणच्छाआ ।
सामा सामण्णपआवइणो रेह च्चि अ ण होइ ॥'
अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा --
‘णाराअणोत्तिपरिणअवयाहि सिरिवल्लहोत्ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमेअ सच्चविओ ॥
अत्राभिन्नस्यापि विषयविभागेन भेदेनोपनिबन्धः । संबन्धेऽसंबन्धो
यथा-
'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः।
एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ।
द्वयी गतिः यदयं कविप्रतिभानिर्वर्तितः सामान्यात्मा भवति भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा । तत्राद्यः सर्वैरेवालंकारबीजतयाभ्युपगतः । अन्यथा हि गौरिव गवय इ - त्यादावलंकारत्वं स्यात् । तावता पुनरेतत्प्रभेदत्वं सर्वालंकाराणां न युक्तम् । तत्वे हि वि- शेषेक्त्युल्लेखादीनामपि तत्प्रसङ्गः । सर्वालंकाराणामपि विशेषोक्त्युल्लेखरूपत्वात् । अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्ययुक्तम् । अस्या ह्यध्यवसितप्राधान्यं लक्षणम् । तच्चालंका- काराणां न संभवति । तथात्वानवगमात् । अतश्चैषामसंभवत्तत्सामान्यत्वात्कथं तद्विशेषत्व- मिति बहुप्रकारत्वमस्या निरस्तम् । मुखादीनामिति । न तु वास्तवस्य सौन्दर्यस्स। कम- लाद्यैरिति । न तु कविसमर्पितेन सौन्दर्येण । अत एव चात्रातिशयाख्यमित्यादिस्तद- भिप्रायेणैवाध्यवसितप्राधान्यमित्यन्तश्चोत्तरकालिको ग्रन्थः स्वमतिजाड्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः। अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पथिकाभिर्लिखित इत्यवगीता प्रसिद्धिः । ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्त रादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति । न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदे- ऽप्यभेद इत्युक्त्वापि न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीय इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनो ग्रन्थकारस्य संभाव्यम् । लटभत्वादीनामित्यादिशब्दा- द्विवर्तनेच्छाया एव ग्रहणम् । तत्रैवाभेदेऽपि भेदविवक्षणात् । उत्तरार्धे हि संबन्धेऽप्यसं- बन्घः । ‘लावण्यद्रविणव्ययो न गणितः’ इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादना र्थमिति । एतत्प्रयोजनदर्शनं सर्वोदाहरणोपलक्षणपरम् । तेनान्यत्र स्वयमेव प्रयोजनमभ्यु
१. ‘तथालंकारान्तराणां’ ख.