सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
अलङ्कारसर्वस्वम्


त्यादि गम्यमानम् । यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्त स्योपादानानुपादानाभ्यां द्वैविध्यम् । उपादाने यथा-

‘प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् ।
चकम्पे वेपमानान्ता भयविह्वलितेव भूः ।

अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपा- त्तम् । अनुपादाने यथा—लिम्पतीव तमोऽङ्गानि’ इत्यादौ । अत्र तमो- गतत्वेन लेपनक्रियाकर्तृत्योत्प्रेक्षायां व्यापनादिनिमित्तं गम्यमानम् । व्या- पनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथो


धर्म एवेति । न पुनर्धर्मी धर्मिगतत्वेनेति । धर्मभित्तितयेत्यर्थः । अत्र हि ध- र्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थाप्यते । अत एवात्र धर्मी भित्तिभूत तया विषयः । धर्मिणं विना केवलस्यैव धर्मस्य व्यवस्थापयितुमशक्यत्वाद्वयव- स्थाप्यमानत्वे वा धर्मित्वमेव स्यात् । वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः । यन्नि- गरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते । । स च निगीर्यमाणो धर्मः क्वचि- दुपात्तो भवति क्वचिच्चानुपात्तः । ‘प्राप्याभिषेकं’ इत्यादावन्ये हेतूत्प्रेक्षात्वं मन्यन्ते इत्युदाहरणान्तरेणोदाह्रियते--नवरोसदलिअ घणनिरवलम्ब संघडिअ तडिकडप्पव्य (?)। नरहरिण जअइ कडारकेसरे कंधराबन्धौ ।’ अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् । कडारत्वं च निमित्तमुपात्तम् । निगीर्यमाणश्च धर्मो धर्मित- गत्वेनोपात्तः । लेपनक्रियाकर्तृत्वोत्प्रेक्षायामित्यर्थादाशङ्कितायाम् । एवं हि तमोलेपन मिवेति प्रतीतिः स्यात् । न चात्र तथेत्याशङ्क्याह-व्यापनादावित्यादि । निमित्तमन्य दिति तिरोधायकत्वादि । तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तृत्व रूपो धर्म उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मटः—व्यापनादिलेपनादिरूपतया संभावितम्'। इति । यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्वि षयरूपस्य धर्मिणः समनन्तरोक्तनीत्या गम्यमानत्वं न युज्यत इत्याह-न चेत्यादि । विषयस्येति । निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः । न तु निगी- र्यमाणस्येति व्याख्येयम् । तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवो- क्तम् । तच्चोदाहृतम् । यथा वा --यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरद्वयमिवोदि- तमेकनालम् । तत्पद्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्या ' अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वम् । तस्येति धर्मिरूपस्य विषयस्य । उत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितस्य लेपनादेर्धर्मस्य व्यापानादिधर्मनिगरणेनोत्प्रेक्षा- विषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः । धर्मिणमन्तरेण धर्मस्य विश्रान्तेः । प्रस्तुत-


१. ‘गम्यमानात्’ क. २. ‘लोक्यमानास्ता' ख. ३. ‘भूतगतत्वेन’ क-ख.