सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
अलङ्कारसर्वस्वम्


'सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण
ज्योत्स्राकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा
यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥'

अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि क्वचित्स्वतोऽसंभवत्सं


न्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम् ॥’ अत्र कुमुदस्य लिष्टत्वम् । एकदेशविवर्ति यथा-यत्तारामौक्तिकार्घप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्षिहस्तस्थितकर कपयोधौतमाकाशलिङ्गम् । तोयाधारे प्रतीचि च्युतवति दिनकृद्बिम्बनिर्माल्यपद्मे तस्या र्चापुण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि काल ॥’ अत्र कालविषये पूजकादिरारोप्य माणेो न शाब्द इत्येकदेशविवर्तित्वम् । तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वा च्छुिष्टत्वम् । क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते । क्रमेण यथा-‘कलि प्रिया शश्चदपालिताज्ञावज्ञां गुरुज्ञातिषु दर्शयन्ती । जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मे ॥’ अत्र कृत्या निषेधपूर्व जायायामारोपिता । तन्निषेधेन हि जा याया कृत्या दार्ढ्येन साम्यं प्रतीयते । कृत्या तथा न स्वकर्मणि व्याप्रियते । यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः । अत्र च यदन्ये विशेषालंकारमाहुस्तदभेदालंकारनिराकरणा देव निराकृतमिति न पुनरायस्यते । हान्या यथा -‘वनेचराणां वनितासखानां दरीगृहोत्स ङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥'अत्रातैलपूरेणहानि कल्पनम्। आधिक्येन यथा-‘तुरीयो ह्येष मेध्योऽग्निराम्रायः पञ्चमोऽपि वा । अपि वा जंगमं तीर्थ धर्मो वा मूर्तिसंचरः ॥’ अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् । ‘दृढतरनिबद्धमुष्टेः कोषनि षण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' इत्यत्रापि दृढारोप मेव रूपकं ज्ञेयम् । अत्र हि कृपणस्य कृपाणस्येति समुच्चीयमानत्वेन निर्देशाच्छाब्दस्यारो पस्यैप्रतीतेरप्याकारमात्रेण भेदस्योत्क्तर्वाक्यार्थपर्यालोचनमाहात्म्यात्परिशिष्टसमस्तधर्मान्तर सद्भावाभ्यनज्ञानात्पर्यवसाने दार्ढ्ये न विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्व मिति पूर्वमेवोक्तम् । अन्येऽपि भेदाः स्वयमेवाभ्यूह्योदाहार्याः । वैधर्म्येणापीति । न केवलं साधर्म्येणेत्यर्थः । । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह--अत्रेत्यादि आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्या रमनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् । असंभवत्संख्यायोगस्येति । यद्यप्ये कादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यव र्तित्वाद्यभिप्रायेणैतदुक्तम् । प्रत्येकमारोपादिति अयमग्रिः कपिलोऽयमग्निः कपिल इत्येवं


१. धत्सेः' ख. २. ‘हान्या यथा' ख-पुस्तके नास्ति. ३. ‘अप्रतीतत्वेऽपि' ख ‘ 4. ‘पूर्वोक्तमेवोक्तम्’ क