सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
अलङ्कारसर्वस्वम्


इति । तथा -‘स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतहूदेन्द्रायुध वान्निशायां संसृज्यमानः शशिनेव मेघः ॥’ इत्यत्र मौञ्जीतडितोः शङ्खशशिनोश्च वस्तुतो भेदे ऽप्यभेदविवक्षामेवाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम्। अत एवात्र पूर्वग्रन्थकृता वस्तुप्रतिवस्तुभाववस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावदृष्टान्तवचेति तदुक्तमेव दृष्टान्तद्वयं दत्तम् । एवं चात्राभेदविवक्षेव जीवितम् । एषा च लक्ष्ये सुप्रचुरैव। यथा-विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धग म्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥’ अत्र विद्युद्वनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम् । अत एव तैस्तैविशेषैरित्युक्तम् । तेषां सकृन्निर्देशाभावान्नानुगामिता । एकार्थत्वाभावान्न शुद्धसामान्यरूपत्वमिति पारेिशष्याद्बिम्बप्रतिबिम्बभाव एव । एतेषां चाभेदेनैव प्रतीतेः साधा रणत्वम् । एवं हारादेरपि ज्ञेयम् । अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता । न चैतावतैवैषामुप मानोपमेयत्वं वाच्यम् । तथात्वाविवक्षणात् । सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् । एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् । क्वचिन्निमित्तान्तरेणाप्यभे दप्रतीतिर्भवति । यथा —‘द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दृुष्टः प्रियोऽप्यासीद्दष्टोऽङ्गुष्ठ इवाहिना ॥’ अत्रोत्तरार्धे दष्टदुष्टयोर्दोषकारित्वादिना एककार्यका रित्वं भेदकारणमित्यलं बहुना । इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भ वति । कमेण यथा-सदयं बुभुजे महाभुजः' इत्यादि । अत्र वधूमेदिन्योरचिरोपनतत्वा त्प्रकृतत्वेन सदयोपभोगे समुच्चितत्वम् । अप्रकृता यथा-‘स्वरेण तस्याममृतस्रुतेव प्रज ल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्स्रीरिव ताड्यमाना ॥ अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वम् । इयमेकदे शविवर्तिन्यपि । यथा-‘कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते । अ लिवलयैरलकैः रिव कमलैर्वदनैरिव नलिन्य ॥” अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेश विवर्तित्वम् । इयं च सादृश्यदार्ढ्यर्थे कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति । तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः । यदुक्तम्-‘उपमे यस्य वैशिष्टघमुपमानस्य वा क्वचित्’ इति । वैधर्म्येणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः । अस्योपमायामेव संभवाद्दार्ढ्यप्रतिपादनाप्रतीतेश्च । क्रमेण यथा 'तं णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स । छप्पअछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विही ॥' अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम् । ‘आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ॥' अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् । न चास्याः पृथग्लक्षणं वाच्यम्


१. ‘एव चात्र' ख. २. ‘साधारणधर्मत्वमुक्तम्' क. ३. ‘समुचिता' ख. ४. ‘क्र- मेण' ख-पुस्तके नास्ति. ५. ‘अप्रकृता यथा' ख-पुस्तके नास्ति. ६. ‘तं नमत नाभिनलिनं हरेर्गगनाङ्गनाभिरामस्य । षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः ॥' इति च्छाया.