नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थंसर्पणात्प्रसादाख्यो गुणः। तस्य
हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम् । अस्य झटिति
समर्पकस्य सतः स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण
एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते । यथा
‘मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।
यथा वा-हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने । तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिंक्रोधवर्णने, पुलिन्दवर्णनादौ ज्ञेयम् । अयं तु तत्र विचारलेशः संभवति--इह क्वचिद्वर्णनीयस्य
वर्णनावशादेव प्रत्यक्षायमाणत्वम् । क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम् ।
आद्यो यथोदाहृतं प्राक् ।
द्वितीयो यथा
‘अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
अचामरोऽप्येष सतेव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ।'
इति ।
भाविकरसवदलंकाराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुक्तं तन्निर्वाहितम्। इदानीं च प्रकृतमेवाह-नाप्ययमित्यादि । झगित्यर्थसमर्पणं प्रसादः, झगिति समर्पितस्यार्थस्य स्फुटलेन प्रतीतिर्भाविकमित्यनयोर्महान्भेदः। एतदेवोपसंहरति-तस्मादित्यादि । एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याह-लक्ष्य इत्यादि । तत्रैवेति । हर्षचरिते। तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम् । पुलिन्दवर्णनं पुनरष्टमोच्छ्वासारम्भे स्थितमिति तत एव स्वयमवधार्यम् । इह तु प्रन्थविस्तरभयान्न लिखितम् । अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमाणत्वे देशादिविप्रकृष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्रकर्षमात्रसारत्वं सूचितम् । तच्च देशकालस्वभावविप्रकृष्टानामविशिष्टमित्येतदुदाहृतम् । तत्रागस्त्यमुनेर्देशविप्रकृष्टत्वम् । अनागतस्य तु यथा क्षिप्तोत्क्षिप्ताखिलखपुटाहन्यमानाद्रिरौद्रध्वानत्रस्यत्सुरवरनमस्कारवाग्दत्तकर्णः पार्ष्णिस्पर्शाद्वहनतुरगं प्रेरयन्म्लेच्छजातिं जेष्यत्येष त्रिभुवनविभुः कर्किरूपेण विष्णुः । एवं चिरंतनोक्तनीत्या विचार्य पुनरपि स्वोपज्ञे कंचिद्विचारमाह -अयमित्यादिना । संभवतीति । न पुनः केनापि दृष्ट इति भावः। यथोदाहृतमिति । मुनिर्जयतीत्या
१. ‘यत्र ’ क, २. ध्यानम्राम्यव' क .