तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः । तत्राभङ्गश्लेषमुखेन
यथा
'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।
अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्गया तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा
‘त्वं हालाहलभृत्करोषि मनसो मूर्च्छा समालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः ।
सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः ॥
उभयमुखेन यथा-
विजये कुशलख्यक्षो न क्रीडितुमहमनेन सह शक्ता ।
विजये कुशलोऽस्मि न तु यक्षोऽक्षद्वयमिदं पाणौ ॥
कि मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः ।
क प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥
भाषा योजनस्य क्वचिद्वचनाविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहृतिनिबन्धनत्वेऽप्यर्थान्तरे तात्पर्यम् । फलभेदश्चालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फलान्तरेष्वपि ज्ञेयम् । तस्मात् ‘एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सद्यस्तापं प्रजानां प्रशममुपनयन्नच्छधारान्छलेन । कुर्वन्दिक्चक्रवालक्रमणमुदयते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तर्हि राजन्नसिस्ते ॥’ इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खङ्गत्वेन योजनं तस्य तत्सादृश्यप्रतीत्यर्थमित्यङ्गभूतोतरमार्थमौपम्यं वक्तुर्विवक्षितम् । वाक्छलमुपचारफलम् । तदविशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकं क्वचित्त्वौपचारेिके प्रयोगे मुख्यार्थमापादानामिति भेदान्तरमप्यवसानवाच्यम् । यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोविंशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम् । तथात्वेनान्यथायोजनस्य वैचित्र्यान्तराभावात् । यद्वा मुख्यौपचारिकार्थद्वयस्यैकवृन्तगतफलद्वय-
१. ‘अत्र’ ख. २. ‘आहे’ ख.
१. ‘मुख्यार्थापादानं’ ख. २. ‘भेदान्तरमप्यस्या न वाच्यं’ स्ख. ३. ‘एकवृन्तगतच्छल त्वन्यायेन' क.