वक्रस्यन्दिस्वेदबिन्दुप्रबन्धर्दष्ट्वा भिन्नं कुङ्कमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख ।’
अत्र स्वेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ
पुरुषोचितखङ्गधारालिखनेन प्रकाशितम् ।
उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः।
यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगूह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद्वयाजोक्तिः । यथा--
‘शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ।
अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनाप्रलपितः । यद्यप्यपहुतोऽपि सस्मितस्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः । तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः। नन्वपह्णुतिग्रन्थे ‘यथा सादृश्याय योऽपह्ववः सापह्रुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपहृतिः' इति स्थापितम् । व्याजोक्तौ चोतरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्य-
नाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणस्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि । निगूढमिति । वस्तुतः । वस्त्वन्तरप्रक्षेपेणेति । निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपह्रुऽपीति । व्याजोक्तेः प्ररोहात् । अपलापमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षणत्वात् । अस्याश्चापदुतेर्भेदं दर्शयितुमुपक्रमते--नन्वित्यादिना । स्थापितमिति । श्लेषग्रन्थे यदुक्तम् । ‘सादृश्यव्यक्तये यत्राअपह्नवोऽसावपह्रुतिः ’ इति । एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम् । उत्तरः प्रकार इति । अपह्वाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात् । कथमिति । निष्प्रयोजकत्वात् । एतदेवाप्युपगम्यं प्रतिविधत्ते-सत्यमित्यादिना ।
१. ‘तत्तत्रोक्तम्’ ख.