अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थदुष्ट एवेत्युक्तम् । प्रकृते तु नृपाङ्गनगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि
विशेष्यस्य शोभनत्वं प्रकान्तम् । विशेषणस्य त्वशोभनत्वमिह त्वन्यथेति
न सर्वथा निरवद्यम् । ननु ‘दुर्वाराः स्मरमार्गणा इत्युक्तोदाहरणवत्कथं
न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा । तत्र
त्वशोभनमेवैतदिति विवक्षितमित्यस्यनयोर्भदः। अत एवैकत्रोपसंहृतं ‘मनसि सप्तशल्यानि’ इति । सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् ।
अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तसादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् ।
कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः।
केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्यं सम्यगाधानात्समाधिः । समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्--
‘मानमस्या निराकर्तु पादयोर्में पतिष्यतः ।
उपकाराय दिष्टयेदमुदीर्णं घनगर्जितम् ॥'
माननिराकरणे कार्यं पादपतनं हेतुः।
शोभनानामुपक्रमेऽप्यशोभनस्य निर्देशात् । अत एवेति । सौन्दर्यनिमित्तत्वाभावात् । अन्यैरिति । काव्यप्रकाशकरादिभिः । तत्तु यथा -श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥’ अत्र श्रुतिधृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् । एवमपीति । सत्यामप्यस्यां समर्थनायाम् । न समर्थेति । अनेनापि मार्गेण क्रमभेदोपपत्तेः । असद्योगसदसद्यौगौ भेदयति--नन्वित्यादिना । इहेति । प्रकृते सदसद्योगोदाहरणे । तत्रेति । असद्यौगोदाहरणे । अत एवेति । शोभनस्य सतोऽशोभनत्वेन विवक्षणात् । सोढव्य इत्युपसंहृतमित्यत्रापि संबन्धनीयम् । एतदेवोपसंहरति तस्मादित्यादिना । प्रकारत्रयस्येति । प्रकारद्वयस्य तावद्भेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीयस्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम् । कारणेत्यादि । एतदेव व्याचष्टे-केनचिदित्यादिना । सौकर्यमिति । कार्यस्य सुखेनानायासमेव प्रकृतकारणवशेन निष्पन्नत्वेऽपि स्वरूपोपचयाधायकत्वेनाकृच्छङ्कार्थस्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्टु वा करणमित्यर्थः । अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्टु वा का-