एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादि-
वर्गः पत्नीत्यादिवर्गश्व वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः ।
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः ।
विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्या-
ज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य
गुणहीनस्य परिग्रहः । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्यो-
त्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः। क्रमप्रतिभासंभवात्पर्या-
यानन्तरमस्य लक्षणम् । समपरिवृत्तिर्यथा
‘उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत ।
हिरण्याक्षवधाह्येषु यशः साकं जयश्रिया ॥'
अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा-
“किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥
अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरि-
‘अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः ।
येन जर्जरकलेवरव्ययास्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥
इत्यर्थः । अस्येति शब्दसामान्यमवलम्ब्योक्तम् । असंहते इति । आश्रयाणामनेक- त्वात् । क्रमेणेति । हृदयायनुक्रमात् । एवमप्येकस्यैव कालकूटस्योत्तरोत्तराधिकस्थाना- सादनादारोहणप्रतीतिः । अवरोहो यथा-‘शिरः शार्वं स्वर्गात्' इत्यादि । अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् । संहते इति । अधरकन्दुकदेरनेकस्याश्रयत्वात् । क्रमव- र्तिन्य इति । अभिसारिकाशिवानामतीतवर्तमानकालावच्छिन्नत्वात् । मुग्धत्वादीनां ब- हुत्वाद्वर्गत्वम् । समन्यूनेत्यादि । एतदेव व्याचष्टे-विनिमय इत्यादिना । ता- दृशस्येति । तुल्यगुणस्येत्यर्थः । अतश्चात्र द्वयोरपि तुल्यगुणत्वात्यज्यमानादीयमानयौर्ग- म्यमानमौपम्यम् । एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् । अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात् । अतश्चात्र शब्दपात्तदधाति () । कचित्सामर्थ्यलभ्यं तदिति
१. ‘पीत्वादिवर्गश्च ' ख. २. ‘समानाधिकन्यूनैः स्ख.
१. ‘अतः’ इत्यारभ्य ‘सामर्यलभ्यम्’ इत्यन्तं ख-पुस्तके नास्ति