मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरण-
मप्यूह्यम् । यथा--
'परहिअअं मग्गन्ती इआरिअं अत्तणोतए हिअअम् ।
अव्योल्लाहस कए मूलाओ ” विछेइआ जाआ ॥
इति तत्रोदाहार्यम् ।
तद्विपर्ययः समम् ।
विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि
च्छब्देन संभवादन्त्यो भेदः परामृष्यते । पूर्वभेदद्वयविपर्ययस्यानलंकार-
त्वात् । अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चाभिरूपान-
भिरूपविषयत्वेन द्विविधः । आद्यो यथा--
‘त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः ।
अयि द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति वा-
मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ।
अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम् । द्वितीयो
यथा-
'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता ।
अत्राननुरूपयोतन्वीमदनानलयोः संघटनम् । अत्रेति तीर्थान्तरेष्वित्यादौ । शुचेति । यत्र विषममेव न स्यात् । तत्तु यथा-‘यो हठं प्रतिनिषेद्धुमुदस्तः सुभ्रुवा प्रियतमस्य कटाक्षः। स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव । अत्र कटक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्ययेत्यादि । संभवादित्यलंकारत्वस्य । अनलंकारत्वादिति । कारणाकार्यो- त्पत्तेर्वस्तुसाधनोद्यतस्य तत्सिद्धेश्च वास्तवत्वात् । यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तेति तस्या अपि कथमलंकारत्वमित्याशङ्कयाह--अन्येत्यादि । चारुत्वादित्यलंकार- त्वपर्यवसायिनः । अभिमानरूपेति । शोभनाशोभनविषयत्वेनेत्यर्थः । आद्य इत्यभिरू-
१. ‘अभ्यूह्यम्’ क.