‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविnaपि जातम् ।
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।
“लोकोत्तरं चरितमर्पयति प्रतिष्ठां
पुंसां कुलं नहि निमित्तमुदात्ततायाः ।
वातापितापनमुनेः कलशाप्रसूति-
र्लीलयितं पुनरमुद्रसमुद्रपानम् ॥
‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥
अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्व-
रणं कार्यं साधर्म्येण समर्थकम् । तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम् । स-।
हसाविधानाभावविरुद्धाविवेककार्यं वैधैर्म्येण समर्थकम् ।
‘पृथ्वी स्थिरा भव भुजंगमा धारयैनां
त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।
दिकुञ्जराः कुरुत तत्रितये दिधीर्षां
देवः करोति हरकार्मुकमाततज्यम् ॥
अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थ- कत्वेनोक्तम् । वैधर्म्येण सामान्यविशेषभावो यथा-
कारः । गुणसंनिपाते दोषनिमज्जनात्मनः सामान्यस्य नैराकाङ्क्षयेण सिद्धस्येन्दोः किरणेष्वि वाङ्क इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविपदीकरणार्थमुपात्तः । अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थनमिति सूत्रणीयम् । अन्यथा ह्यव्याप्तिः स्यात् । तस्यैवेति सहसाविधानाभावस्य । एतत्कार्यविरुद्धमिति संपेद्धरणकार्य- विरुद्धम् । विरुद्धं सामान्यरूपतयेत्यनेन वैधर्म्येण विशेषः सामान्येन समर्थित इत्युक्तम् । सामान्यं तु विशेषेण समर्थ्यते यथा—गुणानामेव दौरात्म्यादुरि धुर्यो नियुज्यते । असं-- जातकिणस्कन्धः सुखं स्वपिति गौर्गडी ॥' अत्रापि समर्थसमर्थकभावसमर्थनादुदाहरण- त्वं वाच्यम् । उदाहृतमिति ‘सहसा विदधीत-' इत्यादिना । एतदुपसंहरश्नन्यदवतारय-
१. ‘उदारतायाः ख. २. ‘वैधम्र्येणोदाहृतं समर्थकम्' क. ३. 'राम:-आगत- ज्यम्’ ख.
१. ‘संपत्करणकार्याविरुद्धम्' ख.