सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलंकारसर्वस्व​म् ।

भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः ।

ध्वनिकारः पुनरभिघातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन-

- - - - -

वागविषयत्वादलक्षणीयत्वमुक्तमित्याह - भट्टनायकेत्यादिप्रौढोवत्येति । न पुनर्लक्षणकरणेन । अत एवोक्तः प्रौढत्वं यल्लक्षयितुमशक्यं तस्याप्यभ्युपगमः काव्यांशत्वमिति न पुनः काव्यत्मत्वम् । यदाह - ‘ध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिता ॥' इति । व्यापारस्येति कविकर्मणः । अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योऽर्थप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् । यदुक्तम् — ‘शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थतत्वेन युक्तं तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत् ।’ इति । तत्रापीति । कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । ‘अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावश्यंशं तेनोक्तम् । तत्रापि ‘अभिधाधामतां याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि श्रृङ्गारादिगणो मतः ॥' इत्यंशद्वयस्य विष​यं प्रतिपाद्य ‘तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः’ इति तृतीयोंऽशः सहृदयगतस्तदंशद्वयचर्वणात्मा ‘दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्’ इत्युक्त्या परब्रह्मास्वादसविघवर्ती विश्रान्तिधामतयाभ्युपगतः तदेवं यद्यपि ‘तात्पर्यशक्तिरभिधालक्षणानुमिती द्विधा । अर्थापत्तिः ​क्व​चित्तन्त्रं समासोक्त्याद्यलंकृतिः ॥ रसस्य कार्यता भोगो व्यापारान्तरबाधनम् । द्वादशेत्थं ध्वनेरस्य स्थिता विप्रतिपत्तयः ॥’ इति नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि ‘काव्यस्यात्मा ध्वनिरिति युधैर्यः समाम्रातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्वमूचुस्तदीयं’ इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् ।.एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकु​र्व​न्ध्वनेरेव काव्यात्मत्वं साधयति - ध्वनिकार इत्यादिना । समयापेक्षार्थावगनशक्तिरभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशैक्तिस्तात्पर्यम् । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणा । एतद्व्यापारत्रयादुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः । तथा च ‘गङ्गायां घोषः' इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरुम्बे च संकेतितौ । सामान्य एवोद्यो-


१. ‘आदृत्य' ख. २. ‘इत्येतदृयस्य' ख. ३. ख-पुस्तके ‘तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्’ इति तुरीयपादोऽपि गृहीतः. ४. ‘समयादर्थावगमन' ख. ५. ‘गतिः ’ ख. ६. ‘पादन' क.