नीयार्थनैरपेक्ष्येण सादृश्यसंभवमात्रेण संमवनीयम् । अतश्च प्रकृतेन सूच-
नीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च
‘आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे
कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः।
बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे
बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ॥
इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अपह्नुते-
रत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यार्थमैत्रप्रवृत्तेर्नायमपह्नुत्यलंकार
इति चेत्, न। उभयथाप्यपह्नुतिसंभवात् । सादृश्यपर्यवसायिना वापह्नवेना-
ह्नवपर्यवसायिना वा सादृश्येन भूतार्थापह्नवस्योभयत्र विद्यमानत्वात् ।
सादृश्यव्यक्तये यत्रापह्नवोऽसावपद्नुतिः।
अपह्नवाय सादृश्यं यत्राप्येषाप्यपहृतिः ।
इति संक्षेपः । आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमिति स्थितिम्।
प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्र- स्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते--
३ पाद्यापि प्राच्यानुरोधात्पुनरपि तदीयमेव मतं दर्शयितुमाह--इह चेत्यादि । भूतार्थो वास्तवः संक्षेप इति प्रमेयसंचयात् । आद्येत्यादि सादृश्यपर्यवसायापह्ववस्वरूपा। स्वप्र-
- {ाव इत्यपह्नुतिलक्षणे । उदाहृतेति पूर्णेन्दोरित्यादिना । द्वितीयेति अपह्नुतिपर्यवसायि-
सादृश्यरूपा । प्रदर्शितेति आकृष्यादावित्यादिना । अत्र च ग्रन्थकृता श्लेषः सर्वालंकारा- पवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्ववपर्यवसायिसादृश्यरूपोऽह्नुतिभे-
दोऽपि तन्मतानुसारमेवोक्तः । यद्वक्ष्यति--व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्यु-
पक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तामिति । अतश्चात्र ग्रन्थकृन्मते वक्ष्यमाणसादृश्या
। श्लेषमूला व्याजोक्तिः । तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तेः । उक्तेति समनन्तरम्, ।
- यत्तु समासौक्तयनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसाम्यादिना प्रसङ्गागतम् । तामे-
| वाह --अप्रस्तुतादित्यादि । नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि
१. ‘विश्रमणीयम्'स्त्र. २. ‘प्रकृतत्वेन’ ख. ३. ‘मात्रख४. ‘अप्रस्तुतावगतौ'ख.