सामग्री पर जाएँ

पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
अलङ्कारसर्वस्वम्



न । आश्रयाश्रयिभावेनालंकारत्वस्य लोकवव्द्यवस्थानात् । एवं च ‘सकल- कलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यादौ न गुणक्रियासाम्यव- च्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः । श्लेषगर्भे तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव वि- श्रान्तिरिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च स- मासोक्तौ विशेष्यस्यापि गम्यत्वाच्छेषस्य बाधिका समासोक्तिः । इह तु

‘त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान् ।
मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्धै वडवाग्निमध्यम् ॥


अत्र श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्प- तितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीग- मनरूपविरुद्धाचरणहेतुकाभ्यां पतितवाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेष- मूल्या अभेदेनाध्यवसिते । सोऽयमतत्क्रियायोगः । तद्धेतुका च मन्ये


लंकारत्वमेवेत्यर्थः । आश्रयाश्रयिभावेनेति । न पुनरन्वयव्यतिरेकाभ्याम् । ताभ्यां हि

यस्य यद्हेतुकत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम् । लोकवदिति । लोके हि यथा कर्णाश्रितः कुण्डलादिः कर्णालंकार उच्यते न पुनः सुवर्णकारणहेतुकंत्वातदलं- कारः । तदेवं स्वमतोपोद्वलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वाद्वा (भावान्नान्य)वा- - ध्यत्वमिति यदुक्तं तदेव प्रपञ्चयितुमेतत्कर्तृकं तावदन्यालंकारबाध्यत्वं दर्शयति-श्लेषे- स्यादिना । तृतीयकक्षायामिति । प्रथमकक्षायां हि रूपकप्रतीतिरेव। द्वितीयकक्षायां तु श्लेषप्रतीतिः । श्लेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौद्भटैर्वदन्यालंकारबाध्यत्वमेत- स्योक्तं तत्सर्वजनविरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपकसमासोक्तिबाध्यत्वमेतस्य ग्रन्थकृतेह दर्शितम् । बाध्यत इति विद्वन्मानसहंसेत्यादौ । बाधिकेति उपोडरागेणेत्यादौ । एवं श्लेषस्यान्यालंकाराणां च परस्परं बाध्यबाधकभावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं द- र्शयति--इह त्वित्यादिना । वडवाग्निमध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्ग- विपरिणामायोज्यम् । ते द्वे इति वडवाग्निमध्यप्रवेशपतितत्वे । पतितत्वाग्निप्रवेशाभ्या- मिति ब्राह्मण्यपरिच्यावप्रायश्चित्तामकाभ्याम् । सोऽयमिति। यत्पतितत्वाग्निप्रवेशयो- र्वस्तुतोऽन्यथास्थितयोरप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसायः । तद्धेतुकेति तच्छब्देन


१. ‘इह तु' क-पुस्तके नास्ति. २. ‘इति’ क. ३. ‘सुलतया’ स्त्र


१. ‘तदलंकारबाध्यत्वमुच्यते’ क. २. ‘कर्मकं’ क. ३. ‘तद्वचन' क. ४. ‘सि- द्धयोः क.