पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
74
अलंकारमणिहारे

सूनावस्थानात्स्यादस्य किमुद्वासनावाप्तिः ॥

 अस्य मकरन्दस्य सूनायां हिंसास्थाने । सूने कुसुमे इति तु तत्त्वं अवस्थानात् स्थितेः ‘सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थाने गळशुण्डिकयोः स्त्रियाम्' इति मेदिनी । उद्वासनं प्रमथनं तस्यावाप्तिः ‘उद्वासनप्रमथनप्रथनोज्जासनानि च' इति वधपर्यायेष्वमरः । उत्पूर्वकात् ‘वस स्नेहच्छेदापहरणेषु' इति चौरादिकाद्धातोर्ल्युट् । उत्कृष्टा वासना परिमळः तस्याः अवाप्तिरिति तु तत्त्वम् । अत्र मकरन्दस्य उपपादितश्लेषसंपादितसूनावस्थानोद्वासनावाप्त्यन्यथानुपपत्त्या जगज्जननीवचनरसचोरत्वं कल्प्यते ॥

 यथावा--

 त्वद्वचनधृतं गव्यं नो यदि तदिदं पुरोऽगमारूढम् । मध्येऽतिभयेऽवाप्ते श्रीमन्व्याधिगतमन्ततः कस्मात् ॥ २११५ ॥

 हे भगवन्! गव्यं गोपयः त्वद्वचनेन धुतं तिरस्कृतमेव नो यदि तदिदं गव्यं पुरः आदौ अगं अद्रिं आरूढं सत् कर्तरि क्तः । लोके प्रतिपक्षनिर्धूतानां गिरिदुर्गप्रवेशस्सुप्रसिद्ध इति भावः । मध्ये गिरिप्रदेशगमनावसरान्तरे अतिभये प्रत्यनीकभूतत्वद्वचनस्मरणेनात्यन्तिकत्रासे अवाप्ते सति अन्ततः पर्यवसाने व्याधिगतं 'द्वितीया श्रित’ इत्यादिना समासः प्राप्तरोगं चेत्यर्थः । अतिमात्रभयसंभ्रान्तानां व्याधेरपि संभवादिति भावः । कस्माद्भवेत् त्वद्वचनधुतत्वादेव गव्यस्येदृगवस्थावाप्तिरिति भावः । अर्थान्तरं तु शब्दपरम् । अस्मिन् पक्षे पुरः । गं । अतिभये । अवाप्तेः । इति छेदः । प्राथमिकार्थे अवाप्ते इति सप्तम्यन्ततया छेदे परत्रस्थितश्रीशब्दशकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वम् । हे अतिभ