पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
182
अलङ्कारमणिहारे

दिकमिह स्मर्तव्यम् । अतएव आमोदिन् अतिनिर्हारिपरिमळशालिन् । भूदेव्यास्स्वाभाविकगन्धवत्त्वेन नित्यतद्योगादिति भावः--

‘विमर्दोत्थे परिमळो गन्धे जनमनोहरे ।
आमोदस्सोऽतिनिर्हारी'

इत्यमरः । यद्वा ‘सर्वगन्धस्सर्वरसः’ इति श्रवणात्सर्वदिव्यगन्धेत्यर्थः । माप श्रीपते! शुभा दामा वैजयन्ती यस्य स तथोक्तः त्वं जय । जिधातोर्लोण्मध्यमैकवचनम् । ‘न पुंसि दाम संदानम्’ इत्यमरः । दामशब्दस्य स्त्रीलिङ्गस्य ‘मनः’ इति ङीब्निषेधे 'डाबुभाभ्यामन्यतरस्याम्' इति डाप् । ततो बहुव्रीहिः । भा मां पाहि पालय ॥

 यथावा--

 वदनाभिभाविताब्जं परमञ्जनवेदगिरिशिरस्युदितम् । वद नाभिभाविताब्जं परमं जन वेदगिरि शिरस्युदितम् ॥ २२४५ ॥

 वदनाभिभाविताब्जं परं अञ्जनवेदगिरिशिरसि उदितं वद नाभिभाविताब्जं परमं जन वेदगिरि शिरसि उदितं इति च्छेदः । वदनेन अभिभावितः अभिभवं तिरस्कारं प्रापितः अब्जः चन्द्रो येन तम् । तिरस्कारे भगवतः प्रयोजककर्तृत्वं, वदनस्य प्रयोज्यकर्तृत्वम् । अञ्जनवेदगिरिशिरसि अञ्जनश्चासौ वेदश्च अञ्जनवेदः अञ्जनाख्यो वेदाख्यश्च यो गिरिः तस्य शिरसि शिखरे उदितं आविर्भूतम् । नाभिभाविताब्जं नाभौ भावितं उत्पादितं अब्जं पद्मं येन तम्, 'अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधिश्रितम्’ इति श्रुतेः । वेदगिरि श्रुतिरूपायां वाचि शिरसि अन्ते वेदान्ते इत्यर्थः । उदितं उदीरितं । वदेः कर्मणि क्तः । 'तं त्वौपनिषदम्' इति श्रुतेः । हे जन ! परं अतिशयितं यथास्यात्तथा परमं