पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
175
शब्दालङ्कारसरः (१२२)

 अत्र प्रथमार्धे वर्णाश्रमधर्मचर्यायाः भगवत्प्रसादरूपफलनिष्पत्तौ सत्यामनादरः, द्वितीयार्धे तादृशफलनिष्पत्त्यभावे अनादर इति तात्पर्यभेदेन वाक्यावृत्तेर्लाटानुप्रासः ॥

 यथावा--

 विषममृतं तस्य भवेद्यस्य मनो भवति माधवेऽस्खलितम् । विषममृतं तस्य भवेद्यस्य मनोभवति माधवे स्खलितम् ॥ २२३५ ॥

 नृत्यति हृदि यस्य हरिः कलिः कृतं तस्य भवति हन्त युगम् । शौरिर्न यस्य चेतसि कलिः कृतं तस्य भवति हन्त युगम् ॥ २२३६ ॥

 अत्राद्ये पद्ये यस्य श्रनिवासे चित्तमस्खलितं तस्य विषमप्यमृतं भवेत् प्रह्लादस्येव । यस्य चित्तं स्खलितं तस्य अमृतमपि विषं भवेदिति । द्वितीये श्रीनिवासध्यानबद्धादरस्य कलियुगमपि कृतयुगं तदन्यस्य कृतयुगमपि कलियुगमिति तात्पर्यभेदेन वाक्यावृत्तेर्लाटानुप्रासः ॥

कलिः कृतयुगं तस्य कृतं तस्य कलिर्युगम् ।
हृदये यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥

 इति प्रमाणमत्र प्रत्यभिज्ञाप्यते । यद्यप्यत्र पद्यद्वयेऽपि पूर्वार्धयोर्विषकल्योरुद्देश्यत्वात्प्राथम्यं अमृतकृतयुगर्योर्विधेयत्वाज्जघन्यत्वं च युक्तम् । उत्तरार्धे तु उद्देश्यविधेयव्युत्क्रमनिर्देशरूपाविमृष्टविधेयांशरूपो दोषः । तथाऽपि तदस्फुरणदशायां प्रतीतिस्थगनविरहात् ईदृशमपि प्रकाशकारादिभिः प्राचीनैरुदाहृतमित्यस्माभिरप्युदाहृतम् ॥