पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
138
अलङ्कारमणिहारे

नया कम्पित इत्यर्थः । ‘पुरं नपुंसकं गेहे देहे' इति मेदिनी । धूसराः ईषत्पाण्डवः कराः यस्य स तथा अभूत् अतिमात्रमन्दद्युतिरासीदिति भावः । श्वित्रिपाणिरभूदिति च गम्यते ॥

 पक्षे वासरकरशब्दः पुरत एव अग्रभाग एव वासितः वाकारेण संबद्धः स न भवतीति निर्वासितः । निश्चल इत्यादाविव निश्शब्दो नञ्समानार्थकः । अविद्यमानवाकार इत्यर्थः । धूतः वाकारस्थान एव धू इति वर्णेन ऊतः धूसरकर इति निरपद्यतेति वस्तुस्थितिः । अत्र पुरत इत्यादिश्लेषभित्तिकाभेदाध्यवसायोपजीवितं वासरकरस्य धूसरकरत्वरूपानिष्टावाप्तिलक्षणविषमम् । अप्रस्तुतवासरकरकर्तृकश्रीचरणरुचिचौर्यादिकार्येण तत्कारणीभूतायाश्श्रीचरणरुचेः कोऽप्यतिशयो द्योत्यत इति कार्यनिबन्धनाऽप्रस्तुतप्रशंसा च काव्यलिङ्गेन सह एकवाचकानुप्रविष्टे ॥

 यथावा--

 तावकगिर्यपवाहितमब्जेक्षण पापनाशनं बत तीर्थम् । द्रमिडा एव न केवलमभिदधते पावनाशनं सर्वेऽपि ॥ २१९५ ॥

 हे अब्जेक्षण! तावकगिरेः शेषाद्रेः अपवाहितं प्रवाहितं पावनाशनं तन्नामानं तीर्थं द्रमिडा एव द्रमिडदेशजा एव केवलं पावनाशनं तीर्थमिति नाभिदधते । अपितु सर्वे सर्वदेशजा अपि जनाः अभिदधते । बतेत्याश्चर्ये । द्रमिडानां अनादिपकारस्य वकारतयोच्चारणस्यागस्त्यव्याकरणशिक्षिततया पावनाशनमित्युक्तिर्युक्तैव । अन्यदेशजन्यानां तथोच्चारणमाश्चर्याववहमेवेति भावः । पवनाशनस्य गिरिरूपधरस्य शेषस्य संब