पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
308
अलङ्कारमणिहारे

स्थेयमेवेत्यर्थान्तरविधानेन लक्ष्म्या उत्तरम् । हारेहारे प्रतिहारे इत्यव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इत्यमूभावाभावः ॥

 यथावा--

 सहजमरुदधिप एष त्वय्यतितृष्णस्सुधापयोधिसुते । सहजं मरौ दधि पिबन्नतितृष्ण इतीदमतितरां चित्रम् ॥ १९२९ ॥

 अत्र सहोदरो मघवा यस्य स उपेन्द्रः त्वय्यतिमात्रस्पृह इत्यर्थकस्य सहजमरुदधिप इति भगवद्वाक्यस्य सहजं यथा स्यात्तथा मरुदेशे दधि पिबन् अतिवेलपिपास इत्यर्थान्तरकरणेन श्रिय उत्तरम् । इमानि 'न कोधः कार्योऽम्बुधि’ इत्यादीनि पद्यानि प्रणयकलहे श्रीश्रीवल्लभयोरुक्तिप्रत्युक्तिरूपाणि ॥

 यथावा--

 व्रजसुमुखि न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे । व्रजसि यदि त्वं नन्देत्कथमयमिति शौरिरग्रहीद्गोपीम् ॥ १९३० ॥

 अत्र व्रजसुमुखीति गोपललनां प्रत्यभिमुखीकरणाय सम्बुद्ध्यन्ततया भगवता प्रयुक्तस्य समस्तपदस्य समुखितया व्रजसुमुख्या हे सुमुखि व्रज गच्छेति श्लेषेणार्थान्तरं परिकल्प्य न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे इति भगवन्तं प्रति वक्रोत्तरं व्यतारि । तेनापि तया संबुद्ध्यन्ततया प्रयुक्तस्य नन्दगोपवंशमणे इत्यस्य समस्तस्य पदस्य हे गोपवंशमणे नन्द मोदस्व इति छेदेनार्थान्तरं प्रकल्प्य त्वं व्रजसि यदि एवं वदन्तं मामुपेक्ष्य गच्छसिचेत् अयं त्वत्परिष्वङ्गमभिलष-