पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
269
उत्तरसर: (८६)

 यथावा--

 ध्येयं किं ब्रह्म परं ज्ञेयं किं तत्स्वरूपरूपगुणम् । गेयं किं तस्य यशः पेयं किं तदभिधाननिभममृतम् ॥ १८५६ ॥

 स्वरूपरूपगुणमिति समाहारद्वंद्वः । अभिधानमिति निभो व्याजो यस्य तत् । अत्र सर्वे प्रश्ना निबद्धाः । प्रश्नोत्तरयोरुभयोरपि पूर्ववन्निरभिप्रायतैव ॥

 का त्वं का वा किं तव गच्छस्येकाकिनीति पृच्छामि । त्वं किल बहुसाह्यकरः पृच्छसि गोविन्द वेद्मि तव वचनम् ॥ १८५७ ॥

 अत्र का त्वमिति कृष्णस्य प्रश्नस्स्वोपभोगार्हताभिप्रायगर्भः । का वा किं तवेति गोपकामिन्या उत्तरं किं वृथाप्रश्नमात्रेणेत्यभिप्रायगर्भम् । गच्छस्येकाकिनीति पृच्छामीति पुनः कृष्णस्य प्रश्नस्तु स्वाच्छन्द्यसौकर्याभिप्रायकः । त्वं किलेत्यादिसोपालम्भाोत्तरं तु त्वं केवलवाङ्मात्रचपलः न तु स्वैरविहारसाहसिक इत्यभिप्रायगर्भम् । इदं च पद्यं चतुर्णामपि निबद्धप्रश्नभेदानामुदाहरणतामर्हति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति ॥

 अत्र जगन्नाथः— अलंकारे ह्यस्मिन् प्रश्नोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः, तथैव चमत्कारोदयात् । तेन सकृत्प्रश्नस्य सकृदुत्तरं नालङ्कारभूमिः । न चोन्नीतप्रश्नोत्तरे अव्याप्तिः । उन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाच्चोत्तरस्याप्येकत्वादिति वाच्यम्। प्रक्षगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम् । किंतु प्रश्नोत्तरपरंपरायां प्राचीनोत्तरश्रवणजन्यत्वमात्रमित्यभाणीत् ॥