पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
176
अलंकारमणिहारे

 ननु नाथ हे भगवन्! कश्चित् अधिनाथः यः कश्चिदैश्वर्यशाली जनः विधिर्भवतु ब्रह्मैव भवत्विति लोकोक्तिः । किं तावतेति भावः । त्वयि मनाक् पराचीने पराङ्मुखे सति अनाथ एव भविता । त्वय्युदासीने कोऽन्यो नाथस्स्यादिति भावः । पक्षे अधिनाथशब्दः विधिः विगतधिवर्णश्चेत् अनाथ इति संपद्येतेत्यर्थः । अत्र मनाग्भगवत्पाराङ्मुख्यदोषेणाधिनाथस्य विधेरपि कस्यचिदनाथत्वरूपदोषाधानम् । उपदर्शितश्लेषचमत्कारस्तु पूर्वेभ्यो विशेषः ॥

 अन्यगुणेनान्यस्य दोषाधानं यथा--

 अतिवेलसहनशीला विपुलेव तवान्तरङ्गरीतिरिति । वारंवारं मनुजास्स्वैरं विधदति किलांहसां भारम् ॥ १७०२ ॥

 अत्र आत्यन्तिकभगवत्क्षमागुणेन दुर्दान्तानां स्वैरदुरितभारकरणरूपदोषाधानम् ॥

 यथावा--

 आद्यन्ताक्षरवैरं त्वय्यखिलसुहृत्तमे रमेश विभो । वैश्वानरमप्यन्तश्श्वानं को नाम भुवि न जानाति ॥ १७०३ ॥

 हे विभो रमेश! अखिलसुहृदि 'सर्वस्य शरणं सुहृत्' इति श्रुत्युद्घोषितसर्वसौहार्दे त्वयि आद्यन्तावभिव्याप्य आद्यन्तं यावच्छरीरपातमित्यर्थः । अक्षरं अक्षय्यं वैरं विरोधः यस्य तं तथोक्तं वैश्वानरमपि वह्नितुल्यमपीति यावत्, अतिपवित्रमपीति भावः । श्वानं सारमेयसदृशं अन्तः मनसि को नाम भुवि न