पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
157
ललितसरः (६८)

रटाभ्यामभेदो न किंतु भेद एवेत्यर्थः । अत्र भगवद्भजनहीनश्रुति स्मृतिपठनं निरर्थकमिति वर्ण्यमनुक्त्वा तत्प्रतिबिम्बमेव निबद्धम् ।

 यथावा--

 केऽपि भजन्ते त्वदितरमितरे त्वामेव देव सेवन्ते । काकाः काका एव ह्यधरितशिरसोऽपि किं नु हंसास्स्युः ॥ १६७५ ॥

 काकाः वायसाः अधरितशिरसोऽपि । पक्षे काका इति शब्दः विपरीतोऽपीत्यर्थः । अत्र देवतान्तरं भजतां महतापि प्रयासेन भगवद्भक्तजनसाधर्म्यं न घटत इति विषयवाक्यार्थमप्रदर्श्य तत्प्रतिबिम्बवाक्यार्थ एव वर्णितः चमत्कारान्तरं तूदाहरणद्वयेऽपि व्यक्तमेव ॥

 न चात्र सर्वत्रापि भेदेऽप्यभेद इत्यतिशयोक्त्या चारितार्थ्यमिति वाच्यम् । तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानम्' ‘कनकलतायां विराजते चन्द्रः’ इत्यादौ दृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि सादृश्यमूलया अप्रस्तुतप्रशंसया, धर्म्यंशे प्रस्तुतत्वविरहात् । नापि निदर्शनया, एकधर्मिगतव्वयवहारद्वयोपादान एव तस्या इष्टेः । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव । एवंच--

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥

 इत्यत्र काव्यप्रकाशिकाकारो यन्निदर्शनामुदाहार्षीत् तदसंगतमेव, ललितस्यावश्याभ्युपगम्यत्वात् । निदर्शनाया अप्राप्तेश्च। तदेवं ललितस्यालंकारान्तरत्वमुररीकुर्वतामाशयः ॥