पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
128
अलङ्कारमणिहारे

वाहसभावं वाहसशब्दत्वं अविन्दत् वा स इति वर्णयोर्मध्ये हकारविन्यासे तथा निष्पत्तेरिति भावः । स्पष्टमन्यत् ॥

 यथावा--

 त्वच्चरणरुचेस्तौल्ये किसलयमुद्युक्तमेव चेदम्ब । मुखभङ्गात्सलयं स्यादीदृग्दर्शयति किं मुखं भग्नम् ॥ १६२४ ॥

 किसलयं मुखभङ्गात् पराभवादिति यावत् । लयः यत्र क्वापि वा लीनता तेन सह वर्तत इति सलयं स्यात् । केनाप्यदृश्यमानतयाऽवस्थितं स्यादिति भावः । पक्षे मुखवर्णविच्युतेः सलयं स्यात् किसलयमिति शब्दरूपं मुखवर्णभ्रंशे सलयमिति निष्पद्येतेत्यर्थः । ईदृक् एवं पराभूतो यःकोऽपि वा भग्नं मुखं दर्शयति किं ? जनानामिति शेषः । मुखभङ्गं प्राप्तवान्मानी कस्यचिदपि मुखं न दर्शयत्येवेति लोकेक्तिः । पक्षे ईदृक् सलयमिति निष्पन्नं किसलयं किसलयपदं कर्तृ, मुखं आदिभागविस्थितमिति यावत् किं कि इत्याकारकं वर्णं भग्नं दर्शयति च्युतं सूचयति । किसलयपदं सलयमिति श्रूयेतचेत् अस्य मुखे वर्णं स्रस्तमिति सूचयतीति भावः । शिष्टं स्पष्टम् । अत्र सामान्यमप्रस्तुतं समर्थकम् ॥

 यथावा--

 पुलिनमपुंभावं गतमम्ब भवत्या नितम्बतो विजितम् । कथमपि सदग्रभवनं पादधुतं किं प्रगल्भतां क्लीबम् ॥ १६२५ ॥