पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
480
अलंकारमणिहारे

अथ विशेषालंकारसरः (४६)

विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ।

 प्रख्याताधारमन्तरेणाधेयस्य विशिष्टावस्थितिवर्णनं विशेषालंकारः । अयं च द्विविधः-- आधारान्तरगतत्वेनाधेयस्य वर्णनं निराधारत्वेन च ॥

 तत्राद्या यथा--

 क्षीणेऽस्तगेऽपि चन्द्रे सान्द्रा शौरे तनोति तज्ज्योत्स्ना । तव वदने दीव्यन्तीवरहितमिन्दीवरामोदम् ॥ १३७३ ॥

 वरं हितं च इन्दीवराणां आमोदं सौरभम्, पक्षे दीव्यन्तीवरहितमित्यत्र दीव्यन्ती इवरहितमिति च्छेदः । इवरहितं इन्दीवरामोदं इन्दिरामोदमित्यर्थः । इन्दीवरामोदमित्यत्र दकारोत्तरवर्तिन ईकारस्य ह्रस्वे वर्णाद्वितयात्मकत्वेन उत्तरस्य इकारस्य लोपेऽपि पूर्वस्य इकारस्य सद्भावेन तथा निष्पत्तेः ॥ यद्वा ईवरहितमित्येव च्छेदः, तथाच ईवरहितं इन्दीवरामोदं इन्द्रामोदमित्यर्थः । इन्दीवरामोदशब्दे दकारोत्तरवर्तिना ईकारेण सह वकारस्य लोपे अवशिष्टदकाररेफसंयोगेन तथा निष्पत्तेरिति भावः । भगवद्दिव्यवदनज्योत्स्नायास्त्रैलोक्यैश्वर्यवितरणेनेन्द्रामोदविधानं पुराणादिषु प्रसिद्धम् । भगवद्वदनश्रियः तदीयस्मितश्रियो वा ज्योत्स्नात्वेनाध्यवसानम् । अत्र चन्द्ररूपप्रसिद्धाधारस्याभावेऽपि तज्ज्योत्स्नारूपाधेयस्य भगवद्वदनलक्षणाधारान्तरगतत्वेन विशिष्टावस्थितिः ॥