पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
337
असंगतिसरः (३९)

म्ब्यां स्त्री सूर्यवंश्यनृपे पुमान्’ इति मेदिनी । बहुमुखकीर्तिं विश्वतोमुखं यशः तामेव बहुमुखकीर्तिमेवेति विरोधः । दशाननयश एवेति परिहृतिः ॥

 यथावा--

 रावणनिकारणान्ननु लङ्कामविभीषणां चिकीर्षुस्त्वम् । सविभीषणामतानीरहो फणिगिरीन्द्र! कोसलेन्द्रत्वे ॥ ११६८ ॥

 निकारणात् निबर्हणात् ‘प्रमापणं निबर्हणं निकारणम्' इत्यमरः ॥

 यथावा--

 विश्वामित्रोल्लासं विधातुमिच्छन्महाहवे पूर्वम् । विश्वामित्रनिरासं व्यतनोरतनुप्रभाव दाशरथे! ॥

 महाहवे महत्यध्वरे सङ्गरे च 'आहवौ यागसङ्गरौ' इति रत्नमाला । विश्वस्य मित्रं विश्वामित्रः कुशिकनन्दनः । ‘मित्रेचर्षौ' इति विश्वशब्दस्य दीर्घः । तस्य उल्लासं विधातुमिच्छन् विश्वामित्रनिरासं व्यतनोरिति विरोधः । विश्वेषाममित्राणां निरसनमिति परिहारः ॥

 यथावा--

 भीष्मद्रोणक्ष्वेडाकुलं पृथासुतबलं समाधित्सन् । कृष्णाशुगाळितोदनमतनोरतिमात्रमब्जनयन! त्वम् ॥ ११७० ॥

 ALANKARA II
43