पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
324
अलंकारमणिहारे

विचारादनन्तरं तंप्रति स्वातन्त्र्यश्रीमोषणाभिव्यक्तस्य कामपारवश्यस्य कारणतायाः प्रतिसंधानान्निवर्तत इत्यत्राप्यभेदाध्यवसायविरोधयोरनुप्राणकत्वोत्कर्षकत्वे प्राग्वदेव । इयमपि शुद्धा ॥

 यथावा--

 मुग्धा मुखसुषमा तव मुकुरस्य श्रियमचूचुरत्सकलाम् । शुद्धे शशाङ्कबिम्बे कलङ्कमम्बेह बत विधिर्विदधे ॥ ११४७ ॥

 शुद्धे ‘योऽर्थे शुचिर्हि स शुचिः’ इत्युक्तरीत्या स्तैन्यदोषविधुरतया निरपराधे । अन्यत्र शुभ्रे । कलङ्कं चौर्यापवादं लक्ष्म च ‘कलङ्कोऽङ्कापवादयोः' इत्यमरः । अत्र कलङ्कं विदधे इत्यत्राभेदाध्यवसायलक्षणातिशयेन चौर्यहेतुकापवादारोपरूपतामापन्ने लाञ्छनविधाने विषय्यंशमुपालम्ब्य तंप्रति सामानाधिकरण्येन विदितस्य हेतोश्चौर्यरूपस्य वैयधिकरण्यज्ञानात्पुरः प्रतीयमानो विरोधो विषयांशविमर्शोत्तरं तंप्रति मुकुरश्रीचौर्याभिव्यक्तलावण्यविशेषस्य हेतुतायाः प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसायानुप्राणितत्वं विरोधोत्कर्षितत्वं च पूर्ववदेव । श्लेषोपबृंहितेयम् ॥

 यथावा--

 कमले विलोचनश्रीः कमलेनैव व्यमोषि तव विमला । इन्दोर्बत प्रतीपा कारा तेजोविवर्द्धनी त्वजनि ॥ ११४८ ॥

 तुशब्दो भिन्नक्रमः । प्रतीपा प्रतिकूला । स्वतेजोऽसहिष्णुना कमलेन कृतेऽपराधे स्वस्य दण्डप्राप्तेरसंभावितत्वादिति भावः ।