पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
322
अलंकारमणिहारे

अत एव कुवलयानन्दीयासंभवोदाहरणभूतं ‘अयं वारामेको निलय इति रत्नाकर इति’ इति पद्यमलंकारसर्वस्वकारादयो द्रव्यक्रियाविरोधोदाहरणतयोपाददिरे । अन्तिमे ‘शुभभाविभवान्दद्याः' इत्युदाहरणे तु वक्ष्यमाणविषमप्रकारभेदेन भवितव्यं, अर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तेरनिष्टप्रतिलम्भस्य च वर्णितत्वात् । तथाऽपि प्राथमिके ‘कुरुसदसि द्रुपदसुता' इति पद्ये तादृशविरोधस्य वा अलंकारान्तरस्य वा असंभवादसंभवालंकार एवोक्तलक्षणलक्षितो विच्छित्तिविशेषशालितयाऽवश्याभ्युपेय इति द्वितीयाद्युदाहरणेष्वप्यर्थनिष्पत्त्यसंभाव्यतावर्णनलक्षणविच्छित्तिविशेषसद्भावस्य सहृदयहृदयैकसाक्षिकतया स एवालंकारः प्रधानीभूत इति तेनैव व्यपदेशो युक्तः 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अन्यस्तु तदङ्गत्वेनाप्रधानतयाऽवतिष्ठत इति सुधीभिराकलनीयम् ॥

इत्यलंकारमणिहारे असंभवसरोऽष्टत्रिंशः


३९-अथासंगतिसरः


भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः ।
वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम् ॥

 विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिर्नामालंकारः ॥

 यावत्कटाक्षधारा भावत्की प्रसरणोन्मुखाकारा । तावत्तापा नमतां श्रीवत्साङ्क स्वयं लयमयन्ते ॥