पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
279
विरोधालङ्कारसरः (३५)

राजीति इका निर्देशः राजिना ‘राजृ दीप्तौ’ इति धातुना सहचरितः अस्यापि फणादौ पाठादिति भावः । अयमेव ‘टु भ्राजृ दीप्तौ’ इत्युक्तो धातुरेव । मूर्धनि अन्तिमवर्णे इति यावत् । कुं ‘चोः कुः' इति विहितं कवर्गादेशम् । हिशब्दोऽवधारणे । तमेवेत्यर्थः । धत्ते इति विचित्रम् । फणादेर्भ्राजेः कुत्वापवादेन षत्वविधानात् । ‘एजृ भ्रेजृ भ्राजृ दीप्तौ’ इत्युक्तभ्राजृधातुवत्कवर्गादेशवत्त्वं विरुद्धमिति भावः । यथोच्यते कौमुदीग्रन्थे-- ‘षत्वविधौ राजृसाहचर्यात् ‘टु भ्राजृ दीप्तौ’ इति फणादिरेव गृह्यते । यस्तु ‘एजृ भ्रेजृ भ्राजृ दीप्तौ' इति तस्य कुत्वमेव" इति । परिहारस्तु-- फणाः स्फटाः आदिशब्दाद्रसनाशिरोरत्नादीनां ग्रहणम् । फणाः आदयो येषां ते तैः भ्राजत इति फणादिभ्राट् फणादिशब्दोपपदकात् 'टु भ्राजृ दीप्तौ’ इति धातोः क्विप् । व्रश्चेति षत्वे जश्त्वेन डः । तस्य चर्त्वेन टः । यः फणिराज इति भावः । शेषगिरिभूतः शेषाद्रितां प्राप्तस्सन् मूर्धनि स्वशिखरे पुरुषं परमपुरुषं श्रीनिवासं धारयति । अयमेव असौ फणिराज एव अहिराजिसहचरित इति समस्तं पदम् । अहीनां फणिनां राज्या श्रेण्या सहचरितः पाताळे फणिश्रेणिमिळितस्सन् तदधीश्वरत्वात्तस्य । मूर्धनि फणमण्डले कुं पृथिवीं ‘गोत्रा कुः पृथिवी' इत्यमरः । धत्ते । यश्शेषाचलरूपावलम्बी श्रीनिवासं स्वशिरसि दधाति स एव फणिराजस्सकलधरातलं शिरस्थले वहतीति निर्गळितोऽर्थः ॥

 तावकचरणाम्भोरुहसेवकवर्गः फणीन्द्रगिरिभास्वन् । संख्यातिगभद्रोऽपि स्फुरति चतुर्भद्रभाग्विचित्रमिदम् ॥ १०८७ ॥