पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
251
व्याजनिन्दासरः (३३)

स्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतेः तुल्ययुक्त्या प्रतिद्वंद्विस्थानीयत्वादस्याः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यात्प्राचीनैरनुक्ताया अप्यभ्युपगन्तुमुचितत्वादिति ॥

 ननु यत्रान्यस्तुत्याऽन्य स्तुतिरन्यनिन्दयाऽन्यनिन्दा च प्रतीयते तत्र व्याजस्तुतिव्याजनिन्दालंकाराभ्युपगमे स्तुतिनिन्दारूपाप्रस्तुतप्रशंसोदाहरणेष्वप्रस्तुतप्रशंसा न वक्तव्या, तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां क्रोडीकरणसंभवादिति चेदुच्यते-- यत्राप्रस्तुतवृत्तान्तात् स्तुतिनिन्दारूपात्तत्सरूपः प्रस्तुतवृत्तान्तः प्रतीयते ‘अन्तश्छिद्राणि भूयांसि’ इत्यादौ तत्र लब्धावकाशा सारूप्यनिबन्धनाप्रस्तुतप्रशंसाऽत्रापि प्रवर्तमाना न शक्यते वारयितुम् । अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याजनिन्दे अपि संभवतश्चेत्कामं ते अपि संभवेतां न त्वस्याः परित्यागः । यद्यपि ‘आमुखमधुरं परिणतिविरसम्’ इत्यनुपदोदाहृते पद्ये तालतरुनिन्दया निहीनफलदातृदेवतान्तरनिन्दा प्रतीयत इति तत्र सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसाऽप्यस्ति तथाऽपि सैव व्याजनिन्दामूलेति प्रथमोपास्थिता साऽपि तत्र दुर्वारा । एवंच व्याजनिन्दाऽनुप्राणितेयमप्रस्तुतप्रशंसेति चमक्तारातिशयः ॥

 यथावा--

 कर्दम दुर्दमगर्वो वल्ग त्वं कस्तवात्र दोषोऽस्ति । यस्त्वां कस्तूरीसममवैति निन्द्यस्स वै विपिनमहिषः ॥ १०१२ ॥