पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
250
अलंकारमणिहारे

(३३) अथ व्याजनिन्दासरः


 व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि ॥ ९१ ॥

 यत्रान्यनिन्दया अन्यस्य निन्दाया अभिव्यक्तिस्सा व्याजनिन्दा । इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः ॥

 यथा--

 घिङ्मां जडमूर्धन्यं वाङ्मानसदूरविपुलदौर्जन्यम् । पयसिजलोचन योऽहं त्वयि विमुखानां मुखानि पश्यामि ॥ १०४० ॥

 अत्र श्रीनिवासविमुखजनमुखावलोकितुस्स्वस्य निन्दया तादृशस्य परमपापिष्ठतया निन्दा व्यज्यते ॥

 यथा वा--

 आमुखमधुरं परिणतिविरसं तिक्तं च वितरसि फलं त्वम् । उच्चैर्भूतपलाशैस्सेव्योऽसि न मादृशस्य तालतरो ॥ १०४१ ॥

 आमुखमधुरं आपातमधुरं ‘तालफलरस इवापातमधुरः परिणामविरसस्तिक्तश्च' इत्येतदनुसंहितम् । उच्चैः भूतैः देवयोनिविशेषैः पलाशैः क्रव्यादैश्च । अन्यत्र उच्चैः ऊर्ध्वप्रदेशे भूतैः जातैः पलाशैः पत्रैः सेव्यः । मादृशस्य दिव्यफलार्थिन इति भावः । न सेव्य इति योजना । अत्र भगवत्प्रपन्नवचने तालतरुनिन्दयाऽतितुच्छफलप्रददेवतान्तरनिन्दा व्यज्यते ॥ अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

 ननु केनाप्यालंकारिकेणानुदीरिताया अस्याः व्याजनिन्दायाः कथमलंकारतयाऽभ्युपगमः ? उच्यते— अन्यस्तुत्याऽन्य-