पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
175
श्लेषसरः (२८)

अस्माद्भावे क्तिन् । जगदाप्यायनवृष्टिः इदं पक्षद्वयेऽपि तुल्यार्थकम् । ‘निकामे निकामे नः पर्जन्यो वर्षतु, यदिन्द्रो वर्षते' इति द्वयोरपि वर्षप्रदत्वोक्तेः । पर्जन्य इन्द्रः ध्वनदम्बुदश्च ‘पर्जन्यौ रसदब्देन्द्रौ' इत्यमरः । इदमपि तस्य पूर्वविशेषणवत् प्रावृषेण्यत्वसूचनाय । तव श्रिया संपदा त्विषा च । पर्यभावि परिभूतः । अत्र विशेषणत्रये क्रमेण सभङ्गोऽभङ्गश्शुद्धश्च श्लेषः केवलाप्रकृतविषयः श्लिष्टविशेष्यकः ॥

 अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथा--

 ह्रादिन्यन्तर्विलसत्सारङ्गोल्लासदायिरसदमलम् । परिभूतं हरिभासा कुवलयम्भोदवलयमपि नीलम् ॥ ९३९ ॥

 ह्रादिन्याः नद्याः, पक्षे ह्रादिन्या तटिता । अन्तः विलसन् 'तटिनी ह्रादिनी धुनी, ह्रादिन्यौ वज्रतटितौ’ इति चामरः । अलं सारङ्गाणां भृङ्गाणां उल्लासदायी यो रसः मकरन्दः तं ददातीति सारङ्गोल्लासदायिरसदम् । पक्षे सारङ्गाणां चातकानां 'सारङ्गश्चातके भृङ्गे’ इति शेषः । उल्लासदायि इदं भिन्नं पदम् । रसत् अमलमिति छेदः । रसत् गर्जत् अमलं अकलुषं अतिस्निग्धमित्यर्थः । नीलं कुवलयं इन्दीवरं अम्भोदवलयं च हरिभासा परिभूतम् । अत्र प्रथमे पादे अभङ्गः द्वितीये सभङ्गः नीलमित्यत्र शुद्धश्च श्लेषः अश्लिष्टविशेष्यकः ॥

 प्रकृताप्रकृतोभयविषयो यथा--

 हृद्यमहापद्मश्रीर्नीलरुचिः कुन्दसहजवरशङ्खः । धनद इव कनति शौरिर्वियद्धुनीविमलवृषगिरीशाप्तः ॥ ९४० ॥