पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
174
अलंकारमणिहारे

माला । अन्यत्र निरङ्कुशोष्मेति भिन्नं पदं, अप्रतिहतौष्ण्य इत्यर्थः। हविषा आज्येन 'घृतमाज्यं हविः' इत्यमरः । स्फुरन्त्यः हेतयो ज्वालाः यस्य सः । जगत् उल्लासयति प्रकाशयति प्रहर्षयति चेति जगदुल्लासिनी या श्रीः द्युतिः संपच्च तां करोतीति तथोक्तः । भानोर्जगत्प्रकाशकत्वं प्रत्यक्षसिद्धम् । वह्नेस्संपत्प्रदत्वं च 'चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह, श्रियमिच्छेद्धुताशनात्’ इति श्रुतिस्मृतिप्रसिद्धम् । ध्वान्तध्वंसी इदमुभयत्र तुल्यार्थकम् । चित्रभानुः भास्करः वह्निश्च ‘सूर्यवह्नी चित्रभानू' इत्यमरः । तव ओजसा निरधावि निर्धूतः । निःपूर्वकाद्धावतेः कर्मणि लुङि चिण् । अत्र पूर्वार्धे सभङ्गः तृतीयपादे अभङ्गः ध्वान्तध्वंसीत्यत्र शुद्धश्च श्लिष्टविशेष्यकोऽप्रकृतमात्रविषयकः श्लेषः ॥

 यथावा--

 संपूर्णभास्वदम्भोळ्युज्ज्वलमूर्तिर्मरुन्महास्फूर्तिः । जगदाप्यायनवृष्टिस्तव श्रिया पर्यभावि पर्जन्यः ॥ ९३८ ॥

 हे भगवन् ! संपूर्णा अनूना भाः छविः यस्य स तथोक्तः स्वः स्वकीयः यो दम्भोळिः वज्रायुधं तेन उज्ज्वलमूर्तिः । पक्षे संपूर्णं पूरितं भास्वत् भासुरं यत् अम्भः पयः तेन अळिः भ्रमर इव उज्ज्वलमूर्तिः तद्वच्छयामल इत्यर्थः । यद्वा संपूर्णं यथातथा भास्वत् अम्भो यस्य स तथा । अत एव अळ्युज्ज्वलभाः उक्तोऽर्थः । विशेषणोभयपदकर्मधारयः। मरुत्सु देवेषु महास्फूर्तिः अतिप्रकाशः, पक्षे मरुता वायुना महास्फूर्तिः अतिस्फुरणः अतिवेलचलन इत्यर्थः । ‘स्फुर संचलने'