पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
171
श्लेषसरः (२८)

लविता रघुनेता भगवान् राघवः । अन्यत्र बहुधा अमराणां देवानां विद्रावणे दूरोत्सारणे परः आसक्तः असुहृत् द्वेषी यो बाणः बलिसुतः तस्य भुजानां विततेः लविता यदुनेता भगवान्वासुदेवो वा मम अविता रक्षिता भविता इति । अत्र त्रयाणां भगवदवताराणामपि प्रस्तुतत्वात्प्रकृतश्लेषस्सभङ्गः अश्लिष्टविशेष्यकः ॥

 अयमेवाभङ्गात्मको द्वितीयो यथा--

  दीव्यतु पुराणरत्नं दिव्यं मन्वन्तरप्रथितविभवम् । वंश्यानुचरितगीतं सर्गप्रतिसर्गरचननिष्णातम् ॥ ९३३ ॥

 मन्वन्तरेषु प्रथिताः विभवाः विभवावताराः ‘मन्वन्तरावताराश्च विष्णोर्हयशिरादयः’ इति श्रीभागवताद्युक्ताः यस्य तत् । अन्यत्र मन्वन्तरानुवर्णनेन ख्यातवैभवम् । वंशे वेणौ भवं वंश्यं दिगादित्वाद्यत् । वंशनाळमित्यर्थः । तेन आचरितं गीतं गानं येन तत्तथोक्तं वेणुगानरसिकमित्यर्थः । पक्षे वंश्यानां सूर्यादिवंशजानां राजादीनां अनुचरितं चरित्रं गीतं उदीरितं यस्मिंस्तत् आहिताग्न्यादेराकृतिगणत्वान्निष्ठायाः परनिपातः । सर्गः--

अव्याकृतगुणक्षोभान्महतस्त्रिविधाहमः ।
भूतसूक्ष्मेन्द्रियार्थानां संभवस्सर्ग उच्यते ॥

इति श्रीभागवतोक्तलक्षणा समष्टिसृष्टिः। प्रतिसर्गः--

पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद्वीजं चराचरम् ॥