पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
172
अलंकारमणिहारे

इत्युक्तलक्षणो महदादिसमाहाररूपचराचरादिव्यष्टिसृष्टिर्विसर्गापरपर्याया । तयोः रचने करणे निष्णातं कुशलम् । पक्षे सर्गप्रतिसर्गवर्णने कुशलं दिव्यं अप्राकृतं रमणीयं च पुराणं सनातनं रत्नं तत्त्वेनाध्यवसितं परं ब्रह्म । इतरत्र--

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंश्यानुचरितं चेति लक्षणानां तु पञ्चकम् ॥

 इत्युक्तपञ्चलक्षणं पुराणश्रेष्ठं श्रीमद्वैष्णवं पुराणं तस्यैव 'निरमिमीत पुराणरत्नम्' इति पुराणरत्नत्वोक्तेः । दीव्यतु दीप्यताम् । अत्र मन्वन्तरेत्यादावेकशब्दप्रतिभानद्वाराऽनेकधर्मपुरस्कारेणानेकार्थप्रतिपादनादभङ्गश्लेषः श्लिष्टविशेष्यकः ॥

 विशेष्ययोरश्लिष्टत्वे अभङ्गो यथा--

 कमलाञ्चितकरयुगळं कलशपयोराशिसंभवस्थानम् । तनुतां श्रियममितां नस्तत्परमं ब्रह्म तत्कळत्रं वा ॥ ९३४ ॥

 कमलैः अञ्चितं पूजितं ततोऽपि श्लाघ्यं, कमलाभ्यां अञ्चितं युक्तं च करयुगळं यस्य तत्तथा । कलशपयोराशिसंभवं तत्र विद्यमानं स्थानं निवासो यस्य कलशपयोराशिः संभवस्थानं जन्मगृहं यस्य च तत्तथोक्तम् । अत्र विशेष्ययोरश्लिष्टता ॥

 तृतीयश्शुद्धः प्रकृतमात्रविषयो यथा--

 भारतविख्यातयशास्स्मेरतरप्रावृषेण्यवारिदभाः । प्रेक्षामनघां वितरतु साक्षान्नारायणः पुराणमुनिः ॥ ९३५ ॥