पृष्ठम्:अलङ्कारमणिहारः.pdf/५३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
529
समासोक्तिसरः (२५)

सति उदितं उदयं प्राप्तं धनुः धनुराख्यं तव लग्नं त्वज्जन्मलग्नं, तथाचोक्तं ज्यौतिषोपकरणे-

अवाच्यभिमुखो भूत्वा निशि कालं खमध्यम ।
स्वभ्रूमध्यगतां योगतारां दृष्ट्वा वदेत्सुधीः ॥
अक्षराणां कटपयादीनां संख्याक्रमाश्रयात् ।
तत्तन्नक्षत्र उच्चस्थे लग्नानां गतिरुच्यते ॥

इत्युपक्रम्य ‘हस्तो धनुर्गृहे बाला' इति । हस्तनक्षत्रमुच्चस्थं चेत् धनुर्लग्ने तिस्रो नाडिकाः त्रयो नाडिकाष्टांशाश्च गता इति तदर्थः ।

प्रतिवाक्यं पठ्यमानवर्णयुग्मादिमाक्षरम् ।
लग्नेऽवबोधयेन्नाडीं तदष्टांशं पराक्षरम् ॥

इति तत्रैवोक्तेः । राज्ये दशमे कन्याराशौ उच्छ्रितं उच्चस्थमित्यर्थः । इदं सौम्यमित्यनेनैवान्वेति, तस्यैव कन्याया उच्चस्थानत्वात् । न त्विनमित्यनेन । तस्य हि मेषो राशिरुच्चस्थानम् । सौम्यं बुधं इनं भानुं च दधानं सत् स्वकलितोदयं स्वस्मिन् धनुर्लग्ने कलितोदयं प्राप्तजन्मानं त्वा त्वां सुश्रीकं शोभनैश्वर्यं तनुते । भाग्याधिपस्य भानोरुच्चगतेन राज्याधिपेन बुधेन सह राज्यस्थानेऽवस्थानादिति भावः । धनुर्लग्नस्य सिंहकन्ये भाग्यराज्यस्थाने । ‘भाग्यं धर्मश्च नवमं, कर्म राज्यं च दशमम्' इति नवमदशमराश्योर्भाग्यराज्यस्थानत्वाभिधानात् । अत्र लौकिके भगवद्धनुर्व्यवहारे--

भाग्यराज्याधिपौ स्यातां भाग्ये राज्येऽपि वा यदि ।
तयोरेकोऽप्युच्चगश्चेन्महद्राज्यं प्रयच्छति ॥

इति ज्यौतिषव्यवहारारोप ॥

 ALANKARA
67