पृष्ठम्:अलङ्कारमणिहारः.pdf/४१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
413
सहोक्तिसरः (२३)

इत्यादवेकेनापरस्य निगरणाभावान्नातिशयोक्तिगन्धोऽपि। अतिशयमात्रं तु प्रायेण साधारणधर्मांशे भूयसामुपस्करोत्यलंकाराणाम् । न हि 'शोभते पद्मवन्मुखम्’ इत्यादौ पद्ममुखशोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा प्रकाशते । तस्मात्कार्यकारणपौर्वापर्यविपर्ययमूलस्सहोक्तेरेकः प्रकार इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तेर्विषयः । यदि तु दीपके तुल्ययोगितायां चोपमानोपमेययोः प्राधान्येन क्रियादिरूपधर्मान्वयः, इह तु गुणप्रधानभावेनैवेति विशेषस्सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरत्वप्रयोजकः अपितु तदवान्तरभेदताया इति विभाव्यते, अपास्यते च जरदालंकारिकवदनावलोकनदाक्षिण्यं, तदा निविशतामियमपि क्लृप्तालंकारेष्वेव । किंचिद्वैलक्षण्यमात्रेणैवालंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति । सत्यं,-गुणप्रधानभावालिङ्गितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनुभवन्तः प्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणं, अन्यथा एवंजातीयोपप्लवेन भूयसी स्याद्वैयाकुली । नैव प्रमाणीकुर्महे वयं मृषानिमीलितलोचनान्प्राचीनान्, निवेश्यतां चेयमलंकारान्तरान्तःपुरकारागृहं वराकीति तु प्रभुतैव, न तु सहृदयतेत्यलं दूरधावनेन ॥

 एवं क्रियायास्साधारणधर्मतायामुदाहरणानि दर्शितानि । गुणस्य तथात्वे यथा-

 भुवनाधिप तव नाभ्या सह मानसमप्युपैति गाम्भीर्यम् । अंसैस्सह महिमाऽपि च कंसरिपो मांसलैर्महौन्नत्यम् ॥ ७०४ ॥