पृष्ठम्:अलङ्कारमणिहारः.pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
328
अलंकारमणिहारे

मणे । नैपण्यं नरनाथं कारुण्यं त्वां च संप्रसाधयति ॥ ५६० ॥

 अत्र कर्तृकर्मणोः ॥

 यथावा--

 तपनीयकुण्डलं यद्रुचिरं तपनीयमण्डलं यदपि । कुङ्कुमवर्णविशेषं तद्द्वयमभिरञ्जयत्यनन्तमपि ॥

 रुचिरं सुन्दरं यत् तपनीयकुण्डलं स्वर्णकर्णवेष्टनं यदपि तपनस्य भानोरिदं तपनीयं ‘वा नामधेयस्य' इति वृद्धसंज्ञायां 'तस्येदम्’ इत्यर्थे ‘वृद्धाच्छः’ इति छप्रत्यय । मण्डलं बिम्बं कुङ्कमस्य काश्मीरजन्मनः वर्णविशेष इव वर्णविशेषो यस्य तत्तथोक्तं अरुणवर्णमित्यर्थः । तद्वयमपि अनन्तं भगवन्तमपि । पक्षे- गगनमपि तमालश्यामलमपीति भावः । अभिरञ्जयति अरुणयतीत्यर्थः। किंच- तपनीयकुण्डलं यत् यदपि तपनीयमण्डलं कु म इत्याकारफवर्णावेव विशेषो वैलक्षण्यं यस्य तत्तथोक्तं तद्वयमपि कुं भुवं अनन्तमन्तरिक्षमपि अभिरञ्जयति । स्ववर्णव्यापनेन लोहितीकरोतीत्यर्थः । कुमिति पृथक्पदपक्षे 'वा पदान्तस्य ’ इति परसवर्ण इति ध्येयम् । अत्रापि कर्तुकर्मणोः। श्लेषसंकीर्णत्वं विशेषः ॥

 औदार्यं कल्पतरोर्गाम्भीर्यं श्रीनिवास सलिलनिधेः । शैशिर्यं तुहिनगिरेरैश्वर्यं तव च भासते सहजम् ॥ ५६२ ॥